पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
काव्यमाला ।

तद्भयाद्विद्रुता साथ जम्बुकी शरणं मुनिम् ।
ययों तद्ध्यानयोगाच्च बभूव करिणी क्षणात् ॥ २९ ॥
स तथा जातसंप्रीतिर्विजहार वने गजः ।
उद्दण्डपुण्डरीकेषु काननेषु मदालसः ॥ ३० ॥
ततः प्रियायै पद्मार्थं सर:पङ्के ममज्ज सः ।
तस्मिन्निमग्ने सा भेजे द्वितीयं गजयूथपम् ॥ ३१ ॥
तं पूर्वकरिणी दृष्ट्वा निमग्नं गर्तुमुद्ययौ ।
भद्रजातिः कुलीनैर्हि प्रीतिः पर्यन्तनिश्चला ॥ ३९ ॥
करुणाब्धेर्मुनीन्द्रस्य स गजेन्द्रोऽप्यनुग्रहात् ।
उन्मज्य कृच्छ्रात्तत्याज सदाचार इवापदम् ॥ ३३ ॥
त्वद्विधाभिरिति प्रीतिरवसानेऽप्यनश्वरी ।
जम्वुकी सा प्रयाता तु न स्थिरा खलसंगतिः ।। ३४ ॥
इति कुञ्जराख्यायिका ॥ १ ॥
इति प्रियस्य वचनं श्रुत्वा विद्याधरात्मजा ।
उवाच कान्यकुब्जेति रम्यास्ति नगरी विभो ॥ ३५ ॥
वामदत्ताभिधानोऽभूत्तस्यां यज्वा द्विजोत्तमः ।
कदाचिद्ब्राह्मणः कश्चित्तद्गृहं भोक्तुमाविशत् ।। ३६ ।।
उपविष्टस्ततस्तस्मिन्सज्जभोजनमण्डपे ।
उत्थाय तूर्ण निर्गत्य वामदत्तोऽभ्ययात्पुनः ।। २७. !!
भोजनान्तेऽर्थिना पृष्टः स निर्गमनकारणम् ।
वामदत्तोऽवदत्स्वैरं श्रूयतां कौतुकं द्विज ॥ ३८ ॥
शशिप्रभेति भार्या मे बभूव सुमुखी पुरा ।
तन्यस्तगृहमारोऽहं राजसेवापरोऽभवम् ॥ ३९ ॥
तत्तः कदाचिन्मामाह पितृव्यः साश्रुलोचनः ।
वामदत्तविरागात्ते भार्या गोपालरागिणी ॥ ४० ॥


१. कन्याकुल ख. २-३: 'देव' ख. ४. प्रियेयं ते ख.