पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right२१७
बृहत्कथामञ्जरी


ततः स्मितस्मेरमुखः सानन्दं नरवाहनः ।
करतृप्तालकं तस्याश्चुचुम्ब वदनाम्बुजम् ॥ १७ ॥
हृते बलान्नीविबन्धे तस्यास्तेन विलासिना !
चकम्पे चूतवल्लीव स्तनस्तबकिनीतनुः ॥ १८ ॥
हृतांशुकं यद्यदङ्गं स ददर्श मृगीदृशः ।..
दृष्टयस्तत्र तत्रास्य न चेलुः कीलिता इव ।। १९
ततस्तां गाढमालिङ्ग्य स प्राह मधुरस्मितम् ।
अहो रूपान्तराधाने वैदग्ध्यं तव सुन्दरि ॥ २० ॥
इति प्रियस्य वचनं श्रुत्वात्यन्तविलासिनी ।
सहसा निजमास्थाय रूपं भेजे रतोत्सवम् ॥ २१ ॥
ततः प्रियेण सा पृष्टा बभाषे दशनांशुभिः ।
ग्रथतीव गुणैर्हारं रतिनर्मविसूत्रितम् ॥ २२ ॥
हृदये मौक्तिकलता सुधासारे मनोरथे ।
कर्णे कर्पूरपूरश्च त्वद्यशः सुदृशां विभो ॥ २३ ॥
अहं त्वद्यशसाहूता तव प्रणयिनीपदम् ।
प्राप्ता गिरिसुतां मन्ये स्वसौभाग्यतिरस्कृतास् ॥ २४ ॥
इति विद्याधरीवाक्यं निशम्य नरवाहनः ।
प्रभाते तत्कथाकेलिहृष्टस्तामित्यभाषत ॥ २५ ॥
ब्रह्मसिद्धिरिति ख्यातो मुनिरासीन्महातपाः ।
तस्थौ तदाश्रमोपान्तगुहायां वृद्धजम्बुकी ॥ २६ ॥
दुर्दिनाभिहते काले कदाचित्सा क्षुधार्दिता ।
कथंचिदिव बभ्राम प्रस्खलद्गतिविक्लवा ॥ २७ ॥
ततः समाययौ गर्जन्मत्तालिवलयो गजः ।
स्मरन्करेणुकां यूथभ्रष्टां मलिनलोचनः ॥ २८ ॥


१. 'पतिरोधाने ख. २. 'लज्जिता' ख. ३. 'मर्दवि ख. ४. 'प्रहृष्टस्तामभाषत'

ख. ५. 'गुअन् ख.६ मीलितलोचनः ख.