पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
काव्यमाला ।

ह्रियमाणस्तथा स्वप्ने दृष्ट्वा तामेव सुन्दरीम् ।
प्रबुद्धस्तन्मुखाम्भोजे ददौ दृशमलक्षिताम् ॥ ५ ॥
स ददर्श विशालाक्षीं तामानन्दसुधानदीम् ।
कान्तिकल्लोलपटलैः क्षालयन्तीमियाखिलम् ॥ ३ ॥
निःश्वाससौरभाकष्टव्योमगङ्गानषट्पदैः ।
बद्धवेदीमिवाविद्धगतिव्यालोलवेणिकाम् ॥ ७ ॥
वीक्ष्यमाणां विचलितग्रीवं खेचरशङ्कया ।
मुहुस्त्रिकपरावृत्तिनिमज्जत्रिवलीलताम् ॥ ८ ॥
वेगोद्गतिदिलोलेन तारहारेण भूषिताम् ।
क्षुभ्यत्क्षीराब्धिकलोलमीलितां कमलामिव ॥ ९ ॥
विलोक्य तां स्मरस्येव नगरीं व्योमचारिणीम् ।
सोऽभवन्निःसृतश्वासः क्षणं कृतकनिद्रया ॥ १० ॥
सा तमादाय नभसा गत्वा मलयपर्वतम् ।
अवतीर्योच्चशिखरे प्रहृष्टा निवृतिं ययौ ॥ ११ ॥
तत्र लङ्कानिलालोलबालचन्दनपल्लवे ।
तस्थौ पर्यङ्कमारुह्य तदालिङ्गनलालसा ॥ १२ ॥
नवस्मररसावेशस्नेहधौतविशेषका ।
लज्जां भेजे मुहूर्तं सा कम्पमानधनस्तनी ॥ १३ ॥
बालामदृष्टसंभोगां मत्वा तां नरवाहनः ।
धूर्तो युक्तिमुपाश्रित्य प्राह निद्राकुलाक्षरम् ॥ १४ ॥
अयि क्वासि कुरङ्गाक्षि प्रिये मदनमञ्चुके ।
इति नाम समाकर्ण्य सदाकारं चकार सा ॥ ११ ॥
सविद्यया निर्विशेषं भूत्वा मदनमञ्चुका ।
गाढालिङ्गनसंनद्धा तस्थौ कुचपुरःसरा ॥ १६ ॥


मनवेषा स्व. २, राइना ख. ३. भूधरम्' । ४. 'लम्बा निलोलोलबले

चियापाव ख.