पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्याम्-कुञ्जराख्यायिका ।
२१६
बृहत्कथामञ्जरी।

हृता सा केन भूतेन देवी मदनमञ्जुका ।
अदृष्टमूर्तिना रत्नपर्यङ्कोत्सङ्गशायिनी ॥ ७२ ॥
श्रुत्वेति सुहृदो वाक्यं बभूव नरवाहनः ।
अवारितमहाशोकपूर्णनिःस्पन्दलोचनः ॥ ७३ ॥
स कोपशोकसंरुद्धो निष्प्रतीकारविक्रियः ।
हा प्रिये प्रेमसुभगे वचो देहीत्यभाषत ॥ ७४ ।।
अन्तःपुरे मदनमञ्चुकया वियुक्तो.
लीलाशुकेषु न ददौ स दृशं सबाष्पाम् ।
ये तत्प्रसादनकला प्रणये बभूवु-
र्नर्मोक्तिभिर्विहितविभ्रमकेलिकाराः ॥ ७६ ॥
इति जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च ॥ २ ॥
इति श्रीक्षेमेन्द्रविरचिते बृहत्कथासारे वेलानामाष्टमो लम्बकः ।
शशाङ्कवतीनामा नवमो लम्बकः ।
प्रथमो गुच्छः ।
सुवर्णगिरिकर्णके तरलतारकाकेसरे
चलज्जलदषट्पदे स्फुटदिगन्तपत्रास्तृते ।
स वः प्रमथनायकः प्रदिशतु श्रियं यत्करः
करोति जगदम्बुजे चलितताललीलायितम् ॥ १॥
ततो विरसंतप्तः स्मरन्मदनमञ्चुकाम् ।
कान्तिमात्रावशेषोऽभून्निःसहो नरवाहनः ॥ २॥
स चन्द्रकान्तपर्यङ्के निषण्णः सखिभिर्निशि।
प्रदध्यौ तप्तनिःश्वासैर्म्लापयन्मणिदीपकान् ॥ ३ ॥
कथंचिद्गतनिद्रार्धमीलिताक्षं स्मरातुरा ।
तं जहार सपर्यङ्कं कापि विद्याधराङ्गना ॥४॥


'केनापि ख.२. 'पणो निशि निस्सुखः ३. 'दथ' ख.