पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
काव्यमाला ।


इति तेन निषिद्धोऽहं न ददामि सुतां स्वयम् ।
अद्यैव प्राहिणोम्येनां मातामहगृहे सखे ॥ 35 ॥
अब्धिना सिंहलद्वीपं तं देशं त्वमपि व्रज।
इत्युक्त्वा विससर्जाशु पुत्रीं प्रवहणेन सः ।।36।।
ततो बलवता तस्याः कर्मणेव नभस्वता।
अमज्यत प्रबहणं तद्विवेद च तत्पिता ॥३7॥
पुत्रीवियोगदुःखार्ते तस्मिन्बन्धुजनैः शनैः ।
आश्वासिते तद्विरहादभवच्छोककर्शितः ॥ ३८॥
ततः सह वयस्येन सिंहलद्वीपगं क्षणात् ।
आरूह्याहं प्रवहणं प्रस्थितो दक्षिणां दिशम् ॥ ३९ ॥
अथ प्रवहणे भग्ने ममापि मकराकरे।
अहं च फलकासक्तः प्राप्तो वेला वनावनी ।।40।।
तत्र भ्रान्तश्चिरं प्राप्य मतङ्गाश्रमकाननम् ।
कन्यां शिवार्चनरतामपश्यं तटिनीतटे ॥ ४१ ॥.
नवतामिव कामस्य यौवनस्यैव दृप्तताम् ।
पूर्णतामिव चन्द्रस्य रूपस्येव विचित्रताम् ।। ४२ ॥
तां दृष्ट्वा विस्मयजुषा तत्प्रविश्य तपोवनम् ।
दृष्टा मया मतङ्गस्य तनया वृद्धकन्यका ॥४3॥
यमुना नाम मां प्राह भाषा चित्रसरस्वती ।
दन्तांशुभिः प्रोद्गिरन्ती मूर्ते पुण्यमिवोज्ज्वलम् ॥ 4४ ॥
भग्ने प्रवहणे पुत्र मतङ्गमुनिना स्वयम् ।
प्राप्तेषा वणिजः पुत्री शिखराख्यस्य सुन्दरी ॥ 45 ॥
सुतेव पालितास्माभिः शिवार्चनरता सदाः
समुद्रवेलालब्धेयमिह वेलेति विश्रुता ॥ 4६ ॥
इति श्रुत्वा परिज्ञाता सा मया चारुहासिनी ।
हर्षवेलास्मरारम्भविलोलतनुवल्लरी ॥ 4७॥


दिई दिनम् स.