पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वेलायाम्-चन्द्रसाराख्यायिका !]
 

ततो दिव्यदृशा ज्ञात्वा मुनिपुत्री पुनः स्थितम् ।
प्राह मा पूर्वभार्यैयं तव पुत्र सुलोचना ॥ 4८ ॥
इत्युक्त्वा विततारासौ तां मह्यं स्वसुतामिव ।
तामहं प्राप्य दयितामश्रौषं मुनिभाषितम् ॥ 4९ ॥
इयं विद्याधरी पूर्वं जलकेलिविलासिनी ।
मुनिनान्तर्जलस्थेन शसा मर्त्यपदं गता ॥ 5० ॥
आदिष्टं चापि योगोऽस्यास्त्वया सह सुदुःसहः ।
उक्तस्तेनैव दुःखान्तो नरवाहनदर्शनम् ॥ 5१ ॥
वैशालिक पुरवरे तुरङ्गकरिणीजवम् ।
यो ब्रवीति स विज्ञेयो भाविविद्याधरेश्वरः ॥ 5२ ॥
जन्मान्तरे तबाध्यस्ति शिवार्चा पुष्पहारिणः ।
किल्बिषं तत्तमेवाशु दृष्ट्वा सर्व विनङ्क्षयति ॥ 5३ ॥
इति श्रुत्वा ततो लग्ने तां प्राप्य हरिणेक्षणाम् ।
प्रस्थितः स्वपुरीं वेलातटं प्राप्तो महोदधेः ।। 5४ ॥
तत्रारोप्य प्रियां नावं यावदस्मि समुद्यतः ।
तावत्सा कर्मयोगेन हृता नौर्मे महानिलैः ॥ 5५॥
ततो वियोगसंतप्तः प्रलापमुखराननः ।
दिवापि तिमिराक्रान्तामिव भ्रान्तोऽस्मि मेदिनीन् ॥ 56 ॥
स च प्रवहणभ्रष्टः प्राप्तः पथि यदृच्छया।
ततो विरहदग्धेन मया सुवचनः सुहृत् ।। 5७ ॥
स मां प्रतापिनं प्राह दृष्टास्माभिस्तव प्रिया ।
समुद्रतीरे शोचन्ति स्फुटं तु न बिभाषिता ॥ 5८ ॥
इति मित्रवचः श्रुत्वा प्राप्तोऽहं भवदन्तिकम् ।
त्वदर्शनावधिः शापो मुनिनाभिहितो यतः ।। 5९ ॥


१.'ततोऽह ख. २. 'जन्मान्तरे तदाप्यस्ति नरवाह' ख. ३. 'द्रक्ष्यति सस

'तथ्यम्' इति भवेत्. ५. 'इलहं तद्वचः श्रुत्वा तां प्राप्य' ख.