पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८. वेलायाम्-चन्द्रसाराख्यायिका
२११
बृहत्कथामञ्जरी ।

अत्रान्तरे वत्सराज विसृष्टो लेखहारकः ।
देव स्वामीहते द्रष्टुमित्याह नरवाहनम् ॥ २३ ।।
श्रुत्वा रुचिरदेवस्तदुवाच रचिताञ्जलिः ।
देवं वत्सेश्वरो वेत्तु निजदासगृहे स्थितम् ॥ २४॥
इत्युक्त्वा विरते तस्मिन्प्रस्थानाभिमुखे तथा ।
राजपुत्रे पितुर्भीत्या स्तिमितेत्र सभाभवत् ॥ २५ ॥
सूचितोऽथ प्रतीहार्या प्रणामानतशेखरः ।
प्रविश्य चन्द्रसाराख्यः सार्थवाहस्तमभ्यधात् ॥ २६ ॥
देव यात्राभिधे देशे बभूव धनदोपमः ।
वणिक्कुसुमसाराख्यस्तस्याहं वल्लभः सुतः ॥ २७ ॥
अहं तदाज्ञया यातः कदाचिद्रविणार्जने ।
सार्धं सुवचनाख्येन सुहृदा सरितां पतिः ॥ २८ ॥
तत्रोद्धतमहावातैः प्रतीपं तटमागते ।
मम प्रवहणे राज्ञौ बद्धोऽहं धनवाञ्छया ॥ 2९ ॥
ततो महीधराख्येन परिज्ञाय कृपाजुषा ।
वणिजा कुलमित्रेण सेवितोऽहं नृपाज्ञया ॥ ३० ॥
संमानितो भूमिभुजा तत्पुरे सुचिरं स्थितः ।
फुल्लवाललताजाले जाते मत्तालिकोकिले ॥ ३१॥
वणिजः शिखराख्यस्य पुत्री जैत्रीं विधुद्युतेः ।
अवश्यमहमुद्याने विलासललितेक्षणाम् ॥ ३२ ॥
तां दृष्ट्वा याचितोऽभ्येत्य ततस्तज्जनको मया ।
प्राह मां स न ते चैषा दातुं मे युज्यते स्वयम् ॥ ३३ ॥
ज्ञानिना भिक्षुणा पूर्वमहमुक्तो हितैषिणा ।
देया मातामहे नेयं नानुकूला तवात्मजा ॥ ३४ ।।


१. 'र' ख. २: 'वर्धना' ख. ३. जन्' ख. ४, 'मैत्रीमिव द्युत्ते.' ख. ५. 'पुत्र

नैवैषाख.