पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
काव्यमाला ।

तद्वेगजातविजये पणबन्धः कृतो मिथः ।
आवाभ्यां देव तत्र त्वं प्रमाता भव सर्ववित् ॥ १० ॥
तदेह्यस्मत्पुरीं तावद्गच्छाम इति तद्गिरा ।
ययौ मनोरथजवं रथमारुह्य तत्परम् ॥ ११॥
तद्राजधानीमासाद्य कान्ताभिर्नयनोत्पलैः ।
अर्च्॑यमानः स्मरधिया तदन्तःपुरमाविशत् ।। १२ ।
ताभ्यां स पूजितस्तत्र भेजे रत्नासनं कृती।
धाम्नां निधेरिवोदारमुदयाचलशेखरम् ॥ १३ ॥
अथायातां सपर्यायै तत्स्वसारं ददर्श सः ।
जिनेन्द्रसेनामुन्निद्रचन्द्रबिम्बनिभाननाम् ॥ १४ ॥
मुहुर्भङ्गाङ्गनाकृष्टकेतकाग्रदलत्विषा ।
कुर्वाणां दृष्टिभङ्गेन कृष्णसारप्रभा दिशः ॥१५॥
लज्जावनतपक्ष्माग्रनेत्रांशुशबलस्तनीम् ।
भ्रमद्भ्रमरसंभारस्तबकामिव मञ्जरीम् ।। १६ ॥
पुरः प्राप्तां प्रणामाय रणन्नूपुरमेखलाम् ।
संचारिणीं कलरणत्कलहंसामिवालिनीम् ॥ १७ ॥
तां दृष्ट्वा पद्मवदनां विस्मितो नरवाहनः ।
हर्षमन्मथकम्पानां क्षणात्परिचितोऽभवत् ॥ १८ ॥
तत्प्रणामाकुला सापि बभौ कर्णोत्पलच्युतैः ।
केसरैरिव तत्कालं संजातपुलकाङ्कुरैः ॥ १९ ॥
स्थित्वा मुहूर्तं वचसा स तयो राजपुत्रयोः ।
सज्जीकृतां तां करिणीमश्वं च द्रष्टुमभ्यगात् ॥ २० ॥
विचार्य विपुले देशे तयोर्वाताधिकं जवम् ।
बबन्ध विजयोष्णीषं करिण्याः कुम्भमण्डले ॥ २१ ॥
जिते वाजिनि दन्तिन्या पुनरन्तःपुरं ययौ ।
प्रीत्या रुचिरदेवेन सेवितो नरवाहनः ॥ २२ ॥



'हरिवभारोन न.२ ख.