पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
 

अथ नयनविलासस्मेरवक्रेन्दुभासा
स्फुटमिह हि स रत्या संगतः पुष्पचापः ।
बत विधिविहतोऽयं कोऽपि नेत्रोत्सवो नः
क्षणमिति दिवि चेरुस्तद्विवाहे प्रवादाः ॥ ६१२ ।।
इति श्रीक्षेमेन्द्रविरचित बृहत्कथासारे मदनमञ्चुकाविवाहो नाम सप्तमो लम्बकः ।
वेलानामाष्टमो लम्बकः।
प्रथमो गुच्छः।
हेतवे सर्वसिद्धीनां कल्मषक्षयकेतवे ।
भवाब्धिसेतवे तुभ्यं नमोऽस्तु वृषकेतवे ।। १ ।।
ततः कदाचिदुद्याने विहरत्नरवाहनः ।
ददर्श राजतनयावश्विनाविव रूपिणौ ॥२॥
तौ दृष्ट्वा निश्चलदृशा स्मयसंतोषनिर्भर ।
कुतो युवामित्यपृच्छन्मुखेन्दुकृतचन्द्रिकौ ॥ ३ ॥
उवाचैकः प्रणम्याथ देव त्वां द्रष्टुभागतौ ।
आवां तुरङ्गकरिणीजवाधिक्यविवादतः ॥ ४॥
अस्ति बैशालिका नाम नगरी संपदां निधिः।
नन्दनो नाम नृपतिस्तस्यामासीन्महायशाः ॥ 5॥
तस्य स्तस्तनयो लक्ष्मीसंक्रान्तिमणिदर्पणौ ।
अहं रुचिरदेवाख्यः पोतश्चायं ममानुजः ॥ ६ ॥
कन्या जिनेन्द्रसेनाख्या स्वसा च मम सुन्दरी ।
प्रकाशितं रत्नदीपशिखयेव कुलं यथा ॥७॥
अस्ति मे करिणी भद्रा केशिनी नाम विश्रुता ।
निर्मिता जवशिक्षायै मरुतामिव वेधसा ॥ ८॥
पोतस्याप्यस्ति तुरगो गरुत्मानिव रंहसा ।
जगत्प्रदक्षिणीकर्तुं जवो मूर्तिमिवाश्रितः ॥ ९ ॥


तित्रो ख. २. 'संसाराणवसेत ख. ३. काविनितेन्दसेना' ख.