पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
काव्यमाला ।

एतद्धिः परमं तत्वं सेव्यते यन्महीपतेः
समस्तग्रहणे राज्ञो मरूतां च ईश्वरः ॥ 600 ॥
राजा न संहताज्जेतुं श""ते सरलाशयः ।
यस्तान्भिनत्ति यत्नेन तस्य लक्ष्मीर्विनश्वरी ।। ६०१ ॥
मथुरायां पुरा राजा सूरसेनः सुसंहतान् ।
भृत्यान्विलोक्य भेदेन योजयामास योगवित् ।। ६०२ ॥
दत्वा प्रसादमेकस्मै तीव्रं परमदण्डयत् ।
तमप्यदण्डयत्काले सर्वानेकैकशस्ततः ॥ 6०३ ॥
इति सन्ति नृपाः प्राज्ञाः सेव्यास्ते तत्त्वदर्शिनः ।
इत्यादि कथवा तस्थौ वयस्यैर्नरवाहनः ॥ 6०४ ॥
अथ मानसवेगाख्यो विद्याधरपतिः स्वयम् ।
कलिङ्गसेनातनयालाभे चक्रे मनोरथम् ।। ६०५ ।।
ततः कलिङ्गसेनाया वचसा वत्सभूपतिः ।
यौगंधरायणसखः पुत्रोद्वाहे समुद्ययौ ।
इत्यादिकयया तस्थौ वयस्यान्नरवाहनः ।। 6०६ ।।
ततः कलिङ्गसेनाया वचसा वत्सभूपतिः ।
यौगंधरायणसखः पुत्रोद्धाहे समुद्ययौ।।607
शस्ते मुहूते विमले प्रवृत्ते देवतागणे ।
पुष्पवर्षे सुरैर्मुक्ते विवाहो चित्तकङ्कणाः ॥ 6०८ ॥
विवेश भूषिता देवी कन्या मदनमज्जुका
निजकान्तिवितानेन भूषयन्ती विभूषणम् ॥ ६०९ ॥
वह्निप्रदक्षिणे तस्याः पत्युः पार्श्वविलोकिनी ।
ननाम दृष्टिः पर्यस्ता स्रस्तेवोत्पलमालिका ॥ ६१० ॥
सकोपोऽभूत्तदा लक्ष्मीर्ह्येतेषां लग्नसंगमे
कल्पविद्याभूतां यस्याः अभावश्चक्रवर्तिताः ॥ ६ ११ ॥


१.हिणे मरुता राहा सनसा च. क ईश्वरः ख. २. राजानः कुटिल लैबोध्यान

कुटिलाशयाख, ३. वहीं ख. ४. त्रिस्ते ख.