पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-शत्रुघ्नाख्यायिका ।
२०७
बृहत्कथामारी

सोद्वेगा कलुषा रूक्षा निम्नगा इव निम्नगाः ।
अहो नु योषितो नाम कोऽपि दोषसमुच्चयः ॥ 5८९ ॥
अप्यन्विष्टा न सभ्यन्ते संत्यक्ता न त्यजन्ति च ।
वासना इव संसारमोहनैकरतां स्त्रियाम् ॥ 590॥
प्रहसन्ति विषादिन्यो हृष्टाः शोचन्ति हेलया।
रागिण्योऽपि पतिं घ्नन्ति कश्चित्तं वेत्ति योषिताम् ॥ 5९१ ॥
अथवा तथ्यमेवैतत्कथयन्ति कथाविदः ।
शत्रुघ्ननामा पुरुषो यथाभूद्वलिनां वरः ॥ 5९२ ॥
गूढमन्यनरासक्तां निजजायां ददर्श सः ।
तां दृष्ट्वा तं जघानाशु कुपितः पारदारिकम् ॥ 5९३ ॥
यथानीतं शर्वं स्कन्धे विधाय बलगर्वितः ।
अन्धकूपे स चिक्षेप वीक्ष्यमाणो नताननः ॥ ५९4॥
कूपे निरीक्ष्यमाणं तं पश्चादेत्य लघु क्रमात् ।
न्यपातयन्निजवधूरिति पापाशयास्त्रियः ॥ 5९५ ॥
इति शत्रुमाख्यायिका ॥ २५ ॥
गोमुखश्चिन्तयित्वेति राजपुत्रं समभ्ययात् ।
मरुभूतिप्रभृतिभिः सेव्यमानं मनःप्रियैः ।। ५९६ ।।
नानाकथान्तरे तन्न राजनीतिविदो मिथः । ...
नरवाहनदत्ताग्रे ते प्राहुः सेवकाः श्रुतम् ॥ ५९७ ॥
दप्ताः कष्टेन सिद्धयन्ति प्लवङ्गचपला नृपाः ।
ये सेव्यमानाः कुप्यन्ति प्रसीदन्ति च वञ्चिताः ॥ 5९८ ॥
समस्तचित्तग्रहणं साहसं स्वामिवञ्चनम् ।
अहो वृतमिदं तीक्ष्णं योगिनः सेवकस्य च ॥ 5९९ ।।


१. 'लील स. २. दोषसमुश्चयमित्यर्थः, ३. 'पुरा ख... गा ख. ५.

'जना' ख. ६. 'वं. चिख५. 'माहासौ सेवकव्रतम्' ख... 'ह'ख, १७, संघसंस्थाविवर्जने ख.