पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
काव्यमाला ।

श्रुत्वेति गोमुखः प्राह मातर्युक्तं प्रभाषसे
यूनोर्हि सदृशी प्रीतिः कस्य नानन्ददायिनी ॥ ५७७ ॥
पुरा वररुचिः प्राह योगनन्दं महीपतिम् ।
भारिकं कुम्भकारं च पथि वीक्ष्य सभागतौ ॥ 578 ।।
अनयोरुपरि प्रीतिः कीदृशी तव भूपते ।
इति श्रुत्वाब्रवीद्राजा हन्तुमिच्छामि भारिकम् ॥ 5७९ ।।अ
कुम्भकारं तु पश्यामि स्वबान्धवमिवागतम् ।
इति राजवचः श्रुत्वा गत्वा वररुचिः स्वयम् ॥ ५८० ॥
तौ बभाषे गतो राजा गरं भक्ष्याद्य पञ्चताम् ।
तच्छ्रुत्वा भारिकः प्राह दिष्टया निष्कण्टकं जगत् ।। 5८१ ॥
कुम्भकारोऽब्रवीत्सास्रं धिग्धिक् शून्याः कृताः प्रजाः ।
छन्नं श्रोतरि भूपाले श्रुत्वा कात्यायनोऽवदत् ॥ 5८२.॥
श्रुतं देव यथैव त्वं चानयोर्वृत्तिरीक्षिता ।
तथैवैतौ त्वयि प्रायश्चेतश्चित्तं हि पश्यति ॥ ५८३ ॥
प्रीतिविस्फारनयना यथा मदनमञ्चुका ।
राजपुत्रे तथैवास्यां राजसूनुरसंशयम् ॥ 5८४ ॥
इत्युक्त्वा गोमुखः प्रायात्प्रहृष्टः स्वं निवेशनम् ।
कलिङ्गसेनापि सुताविवाहं समचिन्तयत् ॥ 5८६ ।।
इति योगनन्दाख्यायिकाः ॥ २४ ॥
कदाचिद्गोमुखं दृष्ट्वा काचित्पौरवणिग्वधूः ।
भजस्वेत्यवदत्सख्या स च तां नाभ्यमन्यत ।। 5८६ ।।
सा लज्जितावधूता च क्रुद्धा च विदधे मतिम् ।
प्रच्छन्ना तद्वधोपायं मधुमिश्रविषादिभिः ॥ ५८७ ॥
पाने विषप्रदां बुध्या तां प्रदध्यौ च गोमुखः ।
अहो निसर्गमलिनं कुटिलं स्त्रीविचेष्टितम् ॥ ५८८ ॥


'योगबन्दोऽय पाच व. २. 'मन्योर्वतसे इशा ख.. ३. 'ता च क्रुद्धा च

विदधे सांयिनी मतिम रू.