पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके योगनन्दाख्यायिका ।
२०५
बृहत्कथामञ्जरी

 ।
वत्सराजः सहामात्यस्तदालोक्यातिकौतुकात् ।
कलिङ्गसेनां सानन्दमेते सर्वविदां धुरि ॥ ५६५ ॥
ततो रहः स्थितो राजा रजनीतिलकाननाः ।
दृष्ट्वा वराङ्गनाः प्रह्रयः पपृच्छागमकारणम् ॥ ५६६ ॥
ताः प्राहुर्भूपते सर्वा वयं विद्याः कलास्तथा ।
शरीरं प्रविशामोऽद्य तव पुत्रस्य धीमतः ।। ५६७ ।।
तच्छ्रुत्वा वत्सराजस्ताः संपूज्य प्रयतः शुचिः ।
महाप्रसाद इत्युक्त्वा बभूवानन्दनिर्भरः ॥ ५६८ ॥
ततस्ता विविशुर्विद्या राजपुत्रं कलाश्च ताः ।
तदाविष्टश्च स बभौ सुधासिक्त इवोडुपः ॥ 5६९ ॥
इति यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च ॥ २३ ॥
नानाविद्याकलाकेलिकाननः स नृपात्मजः ।
सर्वज्ञः पितुरज्ञासीद्वीणार्यो लक्षणं शुभम् ॥ ५७० ॥
नृपाज्ञया पुष्कराख्यो नृत्ताचार्यो दिनैर्व्यधात् ।
कलिङ्गसेनातनयां नृत्यगीतादिकोविदाम् ॥ 5७१ ॥
तां वीक्ष्य राजतनयः सा च तं स्मररूपिणम् ।
प्रापतुः प्रेमवल्लर्या मधुमासविलासताम् ॥ ५७२ ॥
तयोः परस्परं प्रेम्णि वर्धमाने मनोरथैः ।
बभूव पुष्पचापस्य सफलः कार्मुकश्रमः ।। 5७३ ॥
ततः कदाचिदेकान्ते दृष्ट्वा गोमुखसभ्यधात् ।
कलिङ्गसेना जामातुर्भाविनं सुहृदं प्रियम् ॥ 5७४ ।।
नरवाहनदत्तस्य सख्युस्तव यशस्विनः ।
दृष्टिबद्धानुरागां मे सुतां मदनमञ्चुकान् ॥ 5७5 ॥
सेयं यदि वरारोहा याता तत्प्रीतिशालिनी।
तटस्थो राजपुत्रश्च लज्जैषा केन सह्यते ॥ 5७६ ॥


'दं मेने संबन्धिना पदे ख. २. 'दयः ख. ३. 'प्यासीत् ख. ४, 'यां

लक्षणे गुरु:ख ५. 'फल: कार्मुकविक्रमः' स्व... ६. 'दृष्टा' ख. ख्यः'