पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-यक्षाख्यायिका ।
२०३
बृहत्कथामञ्जरी।

अत्रान्तरे वराच्छंभोः साङ्गानङ्गार्थिता रतिः ।
प्रच्छन्ना मायया तन्वी न्यस्ता तत्सूतिकागृहे ॥ ५४१ ॥
नरवाहनदत्तस्य कामस्यापररूपिणः ।
भाविनी वल्लभा गर्भव्यत्ययात्तत्सुताभवत् ।। ५४२॥
लावण्यकलिकाकारैस्तद्वपुःकान्तिसंचयैः ।
प्रापुर्विवर्णतां दीपा द्यूतकारान्नता इव ।। ५४३ ॥
सुतां कलिङ्गासेनाया जातां श्रुत्वा महीपतिः ।
पुत्रोद्वाहे मतिं चक्रे भावज्ञो हि मनोरथः ॥ ५४४ ॥
इति मदनमञ्चुकाजन्मकथा ॥ २१ ॥
ज्ञात्वा वत्सेशसंकल्पं प्राह यौगंधरायणः ।
राजन्नयोनिजैवेत्थमुत्पन्ना कन्यका रतिः ॥ ५४५ ॥
गर्भयोर्व्यत्ययोर्वृत्तं श्रुतमस्माभिरित्यपि ।
त्वत्पुत्रायावत्तीर्णैषा साक्षान्मन्मथरूपिणे ।। ५४६ ।।
विरूपाक्षाभिधो यक्षो धनदानुचरः पुरा ।
विज्ञप्तो निधिपालेन भूतलन्यस्तजानुना ।। 5४७ ॥
देव पाशुपताचार्यः सहितो ब्राह्मणैस्त्रिभिः ।।
निधानोत्पादने लग्नो मथुरायामपेतभिः ।। ५४८ ॥
इति श्रुत्वा विरूपाक्षो हन्यतामित्यभाषत ।
तद्विरा ताञ्जधानासौ धनदस्तं निनिन्द च ॥ ५.४९ ।।
कुबेरो ब्राह्मणवधाद्विरूपाक्षमथाशपत् ।
तच्छापाद्भुवि विप्रस्य पुत्रोऽभूत्सोग्रहारिणां ।। ५५०॥
धनेशमर्थयित्वासौ तद्भार्यावततार च ।
अयोनिजा मत्सुतेति दास्या स्नेहेन वर्धिता ।। ५५१ ॥
तां पूर्वभार्यामालोक्य सोऽपि द्विजकुमारकः ।
कण्ठे जग्राह नश्यन्ति न हि प्राग्जन्मवासनाः ।। ५५२ ॥


ख. २. 'गु' क. ३. ' स. ४. 'त' खं. ५. 'विवेद' व..६, “णः