पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
काव्यमाला ।

स कदाचिद्वणिग्जायां तत्तीर्थे स्नातुमागताम् ।
ददर्श कान्तिकल्लोलप्लाव्यमानामिवामितः ॥ 5२९॥
तामन्विष्य स्वयं राजा समेत्य विजने निशि ।
भजस्वेत्यवदत्को हि कामेन न खलीकृतः ।। 530 ।।
स्पृष्टा वह्निं विशामीति सा समाभाष्य भूपतिम् ।
तत्याज दयिता प्राणान्विषमं हि सतीव्रतम् ॥ 5३१ ॥
भूपतेरपि तत्तीव्रपापसंकुचितायुषः ।
मन्ये तस्य कथास्पर्शाज्जिह्वेयं लज्जतीव मे ॥ ५३२ ।।
इति पतिव्रताख्यायिका ॥ २०
सुराङ्गना शक्रशापादहं प्राप्ता दशामिमाम् ।
निन्द्यासि चपला यद्वा ममेषा भवितव्यता ।। 5३३ ॥
मनोरथशतास्पृष्टमप्राप्यान्यदवाप्यते ।
विधातृविहितं को हि कदा लङ्घयितुं क्षमः ॥ 5३४ ।।
इदं विद्याधरेन्द्रेण वितीर्णं मणिकाञ्चनम् ।
अहं युष्मत्पुरे राजन्निवसाम्यनपायिनी ॥ 5३५ ।।
श्रुत्वेति मदनार्तोऽपि विरराम नरेश्वरः ।
सतां कलुषितं चेतः स्वयमेव प्रसीदति ॥ ५३६ ।
अथ कालेन संभुक्ता विद्याधरधराभुजा ।
कलिङ्गसेना संतोषं गर्भमाधत्त सुप्रभा ।। 5३७ ॥
ततो विद्याधरपतिस्तामामन्त्रय ययौ प्रियः ।
गर्भाधानावधिः स्त्रीणां खेचरैर्हि समागमः ॥ 5३८ ।
स्मृतमात्रः समेष्यामि याते कृत्वेति संविदम् ।
विद्याधरेन्द्रे सा तस्थौ दोहदापाण्डुरद्युतिः ॥ 5३९ ॥
ततोऽसूत सुतां काले संपूर्णे पूर्णलक्षणाम्
चित्रागदोऽद्य गन्धर्वस्तामदृष्टां जहार वा ॥ 5४०


भ्यस्तम ख... 'मन स. ३. ते ख... पम् ख.