पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमचुके-पतित्रताख्यायिका ।]
२०१
बृहत्कथामञ्जरी ।

-सा वत्सराजमालोक्य संभ्रमाद्गलितांशुका ।
स्तनद्वयं विदधती धरोल्लिखितमावभौ ॥ ५१७ ॥
दृष्ट्वाभिनवसंभोगसभावितमनोभवाम् ।
सौभाग्यविभ्रमोद्भिन्नां तां लतामित्र पुष्पिताम् ॥ 5१८ ।।
वत्सराजो नियम्यान्तः कोपमन्मथविक्रियाम् ।
प्राह केनापि पापेन वञ्चितासीति निःश्वसम् ॥ ५१९ ॥
कलिङ्गसेना तच्छ्रुत्वा सद्यश्छिन्नमनोरथा ।
नेदानीं त्वं सपत्नी मे क्ष्मामीतीव व्यलोकयत् ।। 5२० ।।
ततो वत्सेश्वरे याते. साक्षाद्विद्याधरेश्वरम् ।
वरं मदनवेगं सा ददर्श स्मरविभ्रमम् ॥ 5२१
कुलाभिजनमावेध साक्षिता तेन मानिनी ।
नोवाच किंचिन्मनसा बबन्ध वसुनिर्वृतिम् ॥ 5२२ ॥
अथ वत्सेश्वरः स्वैरं स्मरानुशयंतापितः ।
विद्याधरेन्द्ररहितां राजपुत्रीं समाययौ ॥ ५२३ ।।
स तामेत्यावदल्लज्जानीललोचनकान्तिमिः ।
आगुल्फामिव बिभ्राणां नीलोत्पलदलस्रजम् ॥ ५२४ ॥
प्राप्ता. मदर्थमेवासि भज मां सुभ्रु नास्ति ते ।
दोषो विशुद्धभावायाः प्रमाणं चात्र मे मनः ।। ५२५॥
इति राजवचः श्रुत्वा साब्रवीत्साश्रुलोचना ।
दुर्निमित्तं विलोक्यैवं सख्याहं वारिता पुरा ।। ५२६ ॥
सोमप्रभावचः पथ्यमकृत्वा संशयं गता।
प्रजापाल तवेदानीमगम्याहं पराङ्गना ॥ 5२७ ।।
इन्द्रदत्ताभिधो राजा चेदीनामभवत्पुरा ।
पापसूदनतीर्थे च चक्रे दिव्यं सुरालयम् ॥ ५९८ ।।


१. "लिहिताशु' ख. २. 'य' ख. ३. 'नामाभिज ख. ४. सान्विता' ख. 'च सतीधृतिम्' स. ६. नत' ख.