पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
काव्यमाला ।

इति मन्त्रिवचः श्रुत्वा प्रच्छन्नो ब्रह्मराक्षसः ।
कलिङ्गसेनाभवनं तत्प्रयुक्तः पुनर्ययौ ॥ ५०६ ।।
अत्रान्तरे स्मराकृष्टश्चिरान्न्यस्तमनोरथः ।
धीमान्मदनवेगाख्यो विद्याधरपतिः स्वयम् ॥ ५०६ ।।
वत्सेशवेषमाधाय निर्विशेषमवाद्रितः ।
कलिङ्गसेनाभवनं विवेश विशदद्युतिः ॥ ५०७ ।।
कलिङ्गसेना तं वीक्ष्य ध्यात्वा वत्सनरेश्वरम् ।
ससंभ्रमं समुत्तस्थौ रणनूपुरमेखला ॥ ५०८ ।।
लज्जानतमुखाम्भोजां कम्पप्नानां धनस्तनीम् ।
गान्धर्वोद्वाहविधिना हृष्टस्तामालिलिङ्ग सः ॥ १०९ ॥
तं दृष्ट्वा तूर्णमासाद्य प्राह यौगंधरायणम् ।
राक्षसो वत्सराजेन राजपुत्री वृतेति सः ॥ ६१० ।।
असंभाव्यमिदं मन्ये नायं राजा विशृङ्खलः ।
ध्रुवं कश्चित्स तद्वेषो मन्त्री प्राहेति विस्मितः ।। ५११ ॥
नृपं वासवदत्ताया मन्दिरं वीक्ष्य मन्त्रिणा ।
विसृष्टो राक्षसः प्रायादृष्टुं कपटकामुकम् ॥ ५१२ ॥
कलिङ्गसेनाभवने सोऽपश्यन्नृपरूपिणम् ।
विद्याधरेन्द्रं सुरतश्रमनिद्राविमोहितम् ॥ 5१३ ।।
इति कलिङ्गसेनामदनवेगसमागमः ॥ १९ ॥
ततो विज्ञाय निपुणो राजकन्याविचेष्टितम् ।
चक्रे विदितवृत्तान्तं नृपं यौगंधरायणः ॥ 5१४ ॥
कलिङ्गसेना केनापि वृता विद्याधरेण सा ।
इति वासवदत्तां च मद्री गूढमहर्षयत् ॥ १.१९ ॥
क्रोधशोकस्मराक्रान्तो गत्वा वत्सेश्वरः स्वयम् ।
कलिङ्गसेनां निःशङ्कां ददर्शाकीन्ततत्कथाम् ॥ ५१६ ॥


च व... २. "रि ख. ३. 'याज' ख. ४, 'मभ्येत्य ख, ५.."निपुणम्'