पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चके-प्रसेनजिदाख्यायिका !]
१९९
बृहत्कथामञ्जरी ।

यातस्ते कार्यकालोऽसावधुना नास्ति संगतिः ॥ ४९३ ॥
निजप्रयोजनापेक्षापेशलप्रेमभाषिणाम् ।
दुर्लुब्धक्रूरमनसां धीमान्को नाम विश्वसेत् ॥ ४९४ ॥
कृतज्ञ भव मे मित्रं दूरादेवार्य चेतसाम् ।
न सङ्गोऽस्ति विरुद्धो हि भोग्यभोक्तुः समागमः ॥ ४९५ ॥
निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषकः ।
बिलं तत्यान कालेन धूर्तं शत्रुं विलोक्य तम् ॥ ४९६ ।।
इति मार्जाराख्यायिका ॥ १७ ॥
इति बुद्धिमतां नीर्तिनिगूढा कार्यसिद्धये ।
चित्तं हि नयनं प्राज्ञो पापस्यात्मनि संभृतम् ॥ ४९७ ॥
पुरा प्रसेनजिन्नाम श्रावस्त्यां वसुधाधिपः ।
सभायां ब्राह्मणोऽभ्येत्य विज्ञप्तः शास्त्रचक्षुषा ।। ४९८ ॥
दुःखार्जितं वनं देव हारितं त्वयि शास्तरि ।
बने नागबलावल्लीमूले विनिहितं मया ॥ ४९९ ॥
श्रुत्वेति राजा संचिन्त्य वैद्यानाहूय सर्वतः ।
अपृच्छदातुरेष्वद्य प्रयुक्तं किं किमौषधम् ॥ ५०० ॥
इति पृष्टेषु वैद्येषु प्राहैको वणिजो मया ।
दत्तो नागबलाकाथः प्रमाणमधुना नृपः ।। ६०१३
इत्याकर्ण्य तमन्विष्य खानिता येन सा लता।
भेषजायाब्रवीद्राजा ब्राह्मणस्वं हृतं त्वया ॥६०२ ॥
इति वेत्रधराहूतः श्रुत्वा कम्पाकुलो नरः ।
राजभीतस्तथेत्युक्त्वा स विप्राय ददौ धनम् ॥ ५०३ ॥
इति राज्ञा स्वबुद्धैव विप्रस्वं नष्टमाहृतम् ।
को हि नाम स संकल्पो धीमता यो न सिद्धयति ।। ५०४ ।।
इति प्रसेनजिदाख्यायिका ॥ १८ ॥


१, "तम् ख. २. 'दुर्दलकूर' ख. ३. 'निजं धूर्तविलोकितम्' ख. ४. प्रज्ञा

या पश्यति सुसंव्रतम् ख. ५. नेत्य' न' ख.