पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
काव्यमाला ।

मार्जारमवदन्नीलं काचकाञ्चनलोचनम् ।। ४८१ ॥
अमित्रो मित्रतां याति मित्रं वा यात्यमित्रताम् ।
कालेन तस्याश्छेत्स्यामि पाशं ते बद्धसौहृदः ॥ ४८२ ।।
इति श्रुत्वा समधुर मार्जारः सुहृदं व्यधात् ।
गाढमङ्के परिष्वज्य मूषकं विपदि स्थितः ॥ ४८६ ॥
तं दृष्ट्वा नकुलोलूकौ निराशावाखुभक्षणे ।
बभूवतुर्मन्दमुखौ तदुपाश्रयशङ्कितौ ॥ ४८४ ॥
ततः शनैः शनैराखुश्चिच्छेद स्नायुबन्धनम् ।
तूंर्णमित्याह मार्जार विलावं चिरकारणम् ।। ४८५ ॥
स्वार्थमुद्दिश्य लम्बन्तो स वा भक्तिभिरीश्वरम् ।
धूर्तस्तत्कार्यशेषेण यापयेत्कार्यकारणात् ॥ ४८६ ॥
इति ध्यात्वा धिवाखुर्लुब्धकागमनावधि ।
एकपाशंशशेषं ते चकार नयकोविदः ॥ ४८७ ।।
कालाकारकरालेऽथ संप्राप्ते पाशजीविनि
चकते पाशशेषं तं छित्वैव बिलमाविशत् ।। ४८८ ॥
भयान्मुक्तोऽथ मार्जारः कालेनाभ्येत्य मूषकम् ।
बिलद्वारस्थितः प्राह सखे निर्गम्यतामिति ।। ४८९ ॥
तीक्ष्णवक्रोच्चदशनस्मश्रुशूचीनिमाननम्।
कक्षासंवृत्तलाङ्गुलं जिघ्रन्त बिलसौरभम् ॥ ४९० ॥
उच्चैकपादनिभृत मीलितार्थविलोचनम् ।
पार्श्वावलोकिनं दृष्ट्वा मार्जारं मूषकोऽवदत् ।। ४९.१ ॥
सौहार्दैनोपयुक्तः प्राक्तव चाहं भवांश्च मे ।
गम्यतां स गतः कालो न भूमिर्वञ्चनास्वहम् ॥ ४९२ ॥
यद्वान्मधुरं वक्ति मह्यं तन्नाध रोचते ।


१. 'भग्नमुखौ ख...३. 'तं तूणे तूर्णमित्याह मार्जारश्चिरका-

"रिणाख, ते सेवाम ख. ५. 'याचकान्' ख. ६. 'शाबशेष ख.७ "चि- मधुनि व