पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमचके-मार्जाराख्यायिका ]
१९७
बृहत्कथामञ्जरी ।

यौगंधरस्येति वचो निशम्य जगतीपतिः ।
स्मृत्वा देव्यौ च कन्यां च तस्थौ दोलाविलोलधीः ॥ ४७.०॥
वीक्ष्य वासवदत्तां च सङ्गं तस्याः कथं नृपः ।
प्रसन्नवदनो दारमभूत्तस्य मनोरथः ॥ ४७१ ॥
ततो योगेश्वरोऽभ्येत्य मन्त्रिणो रजनीचरः ।
चारमावेदयामास समेत्यालक्षितो निशि ॥ ४७२ ।।
गोपालकेन विदितश्चारः श्वसुरवेक्षणे ।
राज्ञा कलिङ्गदत्तेन पुत्रीवृत्तान्तमाहिताः ।
गूढव्यञ्जनसंचाराश्वारा दृष्टास्तथा मया ॥ ४७३ ॥
इति रक्षोवचः श्रुत्वा प्राह यौगंधरायणः ।
कलिङ्गसेनवृत्तान्तं यत्नेन ज्ञातुमर्हसि ।। ४७४ ।।
त्वद्वुद्धिविभवेनाहं प्रभोर्व्यसनमागतम् ।
छेत्तुमिच्छामि राज्ञां हि दुश्चिकित्स्यः स्मरानलः ॥ ४७५ ।।
त्राणं नैसंगिकी बुद्धिर्नृणामिति किमद्भुतम् ।
तिरश्चामपि निष्पन्ना व्यसनोच्छित्तये मतिः ॥ ४७६ ॥
न्यग्रोधमूलपतितः पालितो नाम मूषकः ।
जाले लोमशमार्जारं ददर्श पतितं पुरः ॥ ४७७ ॥
बद्धे तस्मिन्गताशङ्कः स जिघ्रन्स्वयमागतः ।
भुजैर्बहिश्चरन्नाशु दिलिखन्नखरैर्महीम् ॥ ४७८ ॥
ददर्श नकुलं तत्रोलूकं च विकृताननम् ।
तौ दृष्ट्वा प्राणसंदेहे मूषकः समचिन्तयत् ।। ४७९ ॥
नकुलोलूकभीतोऽहं मार्जारं बलिनां वरम् ।
श्रयामि विषमस्थानां सधिं स्थाने हि शत्रुणा ॥ १८ ॥
चिन्तयन्निति तत्पाशश्छेत्स्यामि बद्धसौहृदः ।


“ध्यात्वा' ख. २. निहिती चारौ' ख. ३. निलयः' ख. ४. 'पँक्षपलानन::

ख. ५. 'भक्ष्यं बहिश्चचाराशु वि' ख. ३. संधिवा ख. ७. 'शच्छेदायोद्यता मानसः' ज.