पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
काव्यमाला ।

इति वत्सेश्वरवचः श्रुत्वा मन्त्रीवरोऽवदत् ।
कन्दर्परूपो नृपतिः श्रुतसेनाभिधोऽभवत् ॥ ४९८ ॥
कदाचित्तीर्थपूतात्मा दृष्ट्वा सोमेश्वरं प्रभुम् ।
अग्निशर्माभिधो विप्रस्तं यदृच्छागतोऽब्रवीत् ।। ४६९।।
पञ्चतीर्थ नृप स्नात्वा यत्र ताः सव्यसाचिना।
पूर्वमप्सरसो मुक्ता द्रष्टुं शर्वमहं गतः ॥ ४६० ॥
दृष्ट्वा सोमेश्वर देवं सुराष्ट्रामृतवारिदम् ।
प्रान्तस्तालीवनालोलश्यामले जलधेस्तटे ॥ ४६१ ॥
ततः कदाचिल्ललितामपश्यं राजकन्यकाम् ।
राज्ञो वसन्तसेनस्य भुञ्जानस्तस्य मन्दिरे ।। ४६२ ॥
भल्लीं कुसुमचापस्य बल्लीं यौवनशाखिनः ।
पल्लीं मदपुलिन्दस्य वीक्ष्य तां विस्मितोऽभवम् ॥ ४६३ ॥
परां रतिमिवालोक्य तां त्वां स्मृत्वा स्मरोपमम् ।
नृपतिः श्रुतसेनोऽस्या योग्य इत्यभ्यधां स्फुटम् ॥ ४६४ ॥
स भवानेव तत्कन्यां वर्तुमर्हति नापरः ।
इत्युक्त्वा तद्गिरा गत्वा तामयाचत तत्कृते ॥ ४६५ ॥
द्विजदौत्यवितीर्णा तां पित्रा प्राप नृपः प्रियाम् ।
विद्युद्द्योतां स्मरोद्यानविलासरसिकोऽभवत् ॥ ४६६ ।।
याति काले तयोः प्रौढं प्ररूढ़े प्रेमपापे ।
अपरा विश्रुतगुणं वरयित्री समाययौ ॥ ४६७ ॥
नवां नरेन्द्रतनयां प्राप्तां पत्युः स्वयंवरे ।
सा ज्ञात्वा प्रियसंभोगभङ्गभीताभवद्व्यसुः ॥ ४६८ ।।
तद्वियोगानलालीढो नृपोऽपि प्राप पञ्चताम् ।
वरयित्री च मानिन्या संशयाय निपातिता ।। ४६९ ।।
इति श्रुतसेनाख्यायिका ॥ १६ ॥


३. प्रेम-खं.

सधमन्दि खन्यारत्नमःख.