पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमञ्च-श्रुतसेनाख्यायिका ।
१९५
बृहत्कथामञ्जरी ।

वर्तमानां परगृहे त्वामहं समुपस्थिता ।
वारिता वल्लभेनाद्या सादयिष्यामि तं पुनः ॥ ४४६ ॥
इति सपत्न्याख्यायिका ॥ १५ ॥
इत्यामन्त्र्य सखीं स्वैरं प्रयातायां विहायसा ।
सोमप्रभायां सत्सर्वमाकर्ण्य ब्रह्मराक्षसः ॥ ४४७ ॥
योगेश्वरः समभ्येत्य मन्त्रिणे दिव्यलोचनः ।
संख्योः परस्परालापं निवेद्य पुनराविशत् ॥ ४४८ ॥
वत्सेश्वरोऽपि तत्सङ्गदिनध्यानपरायणः ।
निनिन्द मनसा नित्यं गणकान्गणनापरान् ॥ ४४९ ॥
दृष्ट्वा वासवदत्तां स निर्विकारमवस्थिताम् ।
यौगंधरायणकृतां कांचिन्नीतिमशङ्कतः ॥ ४९० ॥
तत्कारणं रहो राज्ञा पृष्टो यौगंधरायणः ।
प्राह देव मनस्विन्योर्दयोः कोपो न लक्ष्यते ।। ४५१ ॥
यत्सहासं मुखं कोऽपि स्त्रीणां मे नातिनिश्चितम् ।
मरणे व्यवसायस्य स कोपस्खलितः क्रमः ॥ ४५२ ॥
इत्यादियुक्तिवचनैर्विनिधाय प्रभोर्मनः ।
स विवाहमहोत्साहे श्लथादरमिवाकरोत् ॥ ४५३ ॥
वत्सराजस्ततो ध्यात्वा विमनाः प्राह मन्त्रिणम् ।
संदेहाकुलितो वाक्यं विलोल इव यद्यदः ॥ ४५४ ॥
भजमानां प्रणयिनी यो मोहादवमन्यते ।
नमोऽस्तु षण्ढपशवे तस्मै कठिनचेतसे ॥ ४५५ ॥
अस्मत्पुराणपुरुषः सोऽपि धीमान्धनंजयः।
खर्गे रम्भामनादृत्य तच्छापावापढ्यमाप्तवान् ।। ४५६ ।।
चिन्ताज्वरो दुःसहोऽयं त्यज्यते च नृपात्मजा ।
त्यक्त्वा लक्ष्मीं स्वयं प्राप्तामनुतापं. भजेन्न कः ॥ ४५७ ॥


1. प्रसाध्यामि' स. २. णो' न. ३. न्याः' ख. ४. 'च्याः स. ५. पेख.

७. "क्लैव्यमा ख. रम्भ ख.