पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
काव्यमाला ।

वृत्तिच्छेदाद्विनष्टोऽहं शस्त्रमाण्डक्षये सदा ।
इति मद्वचसा साभूरिविस्मयकौतुका ॥ ४३५ ॥
ततो रहः समेतस्थ रतौ सा भूपतेर्निशि ।
गुदं पस्पर्श हस्तेन संशङ्कस्य कुतूहलात् ।। ४३६॥
ततस्ता डाकिनीं मत्वा स पलाय्य ययौ जवात् ।
इति युक्त्यैव दयिता मया धूर्तेन मोचिता !
बाढं देव्याः करिष्यामि निःसपत्नीभयं मनः ॥ ४३७ ॥
उक्त्वेति तापसीं पृष्टः प्रदध्यौ नापितः क्षणम् ।
राजद्रोहे न शक्तोऽहं किंतु जीवामि वर्णनैः ।। ४३४ ॥
विचिन्त्येत्यवद्युक्तिं नृपस्यान्तःपुरान्तिके ।
हस्तपादशिरःखण्डान्कांश्चित्क्षिपतु पौरुषान् ॥ ४३९ ॥
विलोक्य जातशङ्कस्तां सापवादां मुनेः सुताम् ।
दृढवैर्मा नृपः कोपाद्भुवं त्यक्ष्यति बल्लभाम् ॥ ४४० ॥
इति तद्वाक्यमाकर्ण्य तापसी राजमन्दिरे ।
देवीहिताय तत्सर्वं चकारालक्ष्यचारिभिः ॥ ४४१ ।।
तद्विलोक्य नृपो घोरां तां मत्वा शाकिनीं वधूम् ।
सपत्नीरचितासत्यदोषां तस्याज मूढयत् ॥ ४४२ ॥
पितुराश्नममासाद्य सर्षपादिष्टवर्त्मना ।
न्यवेदयत्स्ववृत्तान्तमात्मनः क्षितिपस्य च ॥ ४४३ ।।
विज्ञाय स हि तद्वत्तं दिव्यधार्यङ्कणो मुनिः ।
चकाराभ्येत्य यत्नेन संयात प्रत्ययं नृपम् ॥ ४४४ ॥
इति माया सपनीनां दुर्लङ्घया नृपमानसे ।
गच्छाम्यहं त्वया सुभ्र स्थातव्यं सावधानया ।। ४४९ ॥


'वस्तता' ख. ३. 'क ख. विज्ञाय दुहितुर्वसं दिव्यधी-