पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमञ्चके-सपल्याख्यायिका ।]
१९३
बृहत्कथामारी

रत्नमन्त्रौषधिग्रीतसदैवज्ञपुरोहिते ।
महाराजपुरे युक्ता नश्यन्ति क्षुद्रसिद्धयः ।। ४२३ ।।
ध्यात्वेति दुःखिता प्रायात्सुहृदं साथ नापितम् ।
यो मायाडम्बरचयैधौर्त्यराशिरिवोत्थितः ॥ ४२४॥
तस्मै निवेद्य सा सर्व राजपदया विवेष्टितम् ।
कार्येऽस्मिंस्त्वं सहायों में तमुवाचेति तापसी ॥ ४२५ ॥
स तन्निशम्य मनसा प्रदध्यौ हर्षर्संप्लुतः ।
अचिन्ते तमिदं तेन दिष्टयाहं स्वयमर्थितः ॥ ४२६ ॥
दिष्टया पिबामः खादामो वर्णयित्वा समञ्जसम् ।
पुण्यैरुपनमन्त्येव धूर्तानां जडबुद्धयः ॥ ४२७ ॥
चिन्तयित्वेति विश्रब्धं तां स सादरमभ्यधात् ।
स्थितोऽहमत्र निःशेषमायाकल्लोलसागरः ॥ ४२८ ।।
राजपत्न्या करिष्यामि सपत्नीविनिवारणम् ।
युक्तिज्ञः साधयिष्यामि सर्व तब मनोगतम् ।
कर्णकौतुकमव्यग्रा मङद्बुद्धिविभवं शृणु ॥ १२९ ।।
दुःशीलनामा भूपालः पुरा मे वल्लभां रहः ।
सदा सिषेचे तद्दुःखादभवं शुष्कविग्रहः ।। ४३० ।।
वमनक्षालनक्षीणं विधायाहं ततो वपुः ।
अवदं भूमिपालेन पृष्टो दौर्बल्यकारणम् ।। ४३१ ।।
भार्या मे डाकिनी रात्रावाकृष्याङ्गानि भक्षति ।
गुदद्वारेण तेनाहं विवर्णो निष्प्रभः कृशः ॥ ४३२ ॥
सशङ्कमिति राजानं विधायाहं स्वमन्दिरे ।
अबोचं साश्रुनयनो निजजायामधोमुखः ।। ४३३ ॥
गुदे राज्ञः समुत्पन्नं दंष्ट्रायुगलमुत्कटम् ।
क्षुरं छिनत्ति सततं तेन मे कर्मकारिणः ॥ ४३४ ॥


1. 'युते ख. २. 'वापि स्व. ३. 'अचिन्त्यत विधाने हिंदृ' ख. ४. 'की' ख.

'स विधाय ख.