पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
काव्यमाला ।

पुत्रि भूयाः सपत्नीषु सावधानात्मरक्षणे ।
न सहन्ते हि मानिन्यः पत्युरन्यासमागमम् ॥ ४११ ॥
खिन्ना मर्तृगृहे सुम्नु यदा पितरमेष्यसि ।
तदा मार्गोपदेशाय तवेयं सर्षपावलीः ॥ ४१२ ॥
इत्युक्ता तामिरगमत्सा पत्युरनपायिनी।
उदयाभ्युत्थितस्येव रक्ता भानुमतः प्रभा ।। ४१३ ॥
सा राजधानीमासाद्य रुचिरोद्यानभूमिषु ।
रममाणा चिरं तस्थौ प्रियप्रणयलिता ॥ ४१४ ॥
तस्यामासक्तमालक्ष्य नृपं त्यक्ताखिलक्रियम् ।
ज्येष्ठा नरेन्द्रमहिषी बभूव भृशदुःखिता ॥ ४१५ ॥
उवाच सास्रमेकान्ते सा समाहूय भूपेतः ।
सचिवानेकसक्तोऽयं क्षमापतिर्वार्यतामिति ॥ ४१६ ॥
तदाकाब्रुवन्देवीं स्वैरमालोक्य मन्त्रिणः ।
वयं प्रणयिनि प्रेमच्छेदे न स्वामिनः क्षमाः॥ १७ ॥
स्त्रियोऽत्र विनियुज्यन्ते भिक्षुकी वाथ तापसी ।
मायाकुहककौटिल्यकलाकोशा हि योषितः ॥ ४१४ ॥
श्रुत्वेति लजितेवासौ कृत्वा तद्वचनं हृदि ।
दम्भान्न युक्तमित्युक्त्वा तान्विसृज्य तथाकरोत् ।। ५१९ ॥
गर्भदास विसृज्यासौ समाहूय सुपूजिताम् ।
सपत्नीपरिहाराय योजयामास तापसीम् ॥ १२० ॥
गर्भपातनसंस्थानवश्याकर्षणमारणैः ।
लब्धप्रतिष्ठा तत्कार्ये सा तथेत्याह पूजिता ॥ १२१ ॥
तत्प्रतिज्ञाय सा पश्चात्तापं भेजे निजाश्रमे ।
कुहकाः प्रभवन्त्येते कथं नूपगृहे स्थितिः ॥ ४२२ ॥


'लाख, २. 'ल्प ख. ३. 'मायुक्त ख. ४. 'तेन ख. ५. 'हेष्विति' ख.