पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमञ्चुके-सपल्याख्यायिका !]
१९१
बृहत्कथामञ्जरी ।


<Poem>मदनमञ्चुके-सपल्याख्यायिका ।] बृहत्कथामञ्जरी । इत्येवमनिमित्तानि मूखैरंगणितान्यपि । फलन्ति भेषजं तेषां साधुविद्वत्समागमः ।। ३९९ ॥ इति मूर्खाख्यायिका ॥ १४ ॥ सखि तूर्ण त्वया मोहारिकमात्मा प्रकटीकृतः। सपत्नीनां प्रयत्नो हि त्वद्विवाहविपर्यये ॥ ४०० ॥ रक्षणीयासि मे यत्नात्सपत्नीगोचरं गता। मायावतीनां वैरेण योषितां को हि मुच्यते ॥ ४०१ ।। दृढवर्माभिधो राजा मृगयानिर्गतः पुरा । इक्षुमत्याः परिसरे हृतोऽश्वेनाविशद्वनम् ॥ ४.२ ॥ सोऽपश्यदनिलालोलशालरम्ये तपोवने । तत्र कन्यां समासाद्य लावण्यललिताकृतिम् ॥ ४०३ ॥ तां विलोक्य मनःसिन्धुचन्द्रिकां क्षुभितो नृपः । प्रणम्य तस्या जनकं मुनिं पप्रच्छ मङ्कणम् ॥ ४०॥ भगवन्कस्य कन्येयमस्मिन्नपि तपोवनें । यत्कटाक्षकृतालम्बो मुष्णाति मदनो जनम् ।। ४०६ ॥ श्रुत्वेति भूपतेः कन्यालाभलोलुपचेतसः । मुनिः प्रोवाच तां तस्मै दातुमभ्युद्यत्तः वयम् ॥ ४०६ ॥ ममैवाप्सरसो वीक्ष्य मेनका धैर्यविप्लवात् । सुतेयं कदलीगर्भा कदलीगर्भसंभवा ॥ ४०७ ॥ गृहाणेमां शशिमुखीं पात्रमेवासि भूपते । दुष्यन्त इव कण्वेन पुरा दत्तां शकुन्तलाम् ॥ ४० उक्त्वेति प्रददौ तस्मै स कन्यामायतेक्षणाम् । अप्सरःकल्पितोद्वाहां योग्यकौतुकमङ्गलाम् ॥ ३०१ ॥ भूभुजा सह तां गन्तुं प्रस्थितां शासनात्पितुः । ऊचुरप्सरसः स्नेहात्त्वास्यै सिद्धसर्षपान् ॥ ४१० ॥

'निदर्तने' ख. २. (क)ख. ३. 'तरु' ख.


निदर्तने ख... खे. ३. तर ख.