पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
काव्यमाला ।

प्रच्छन्नकामिनी यूना केनापि रतिसंगता ।
सकम्पाकुलनिःश्वासो विदधे तस्य कौतुकम् ॥ ३८७ ॥
रतिनिद्रापरीतायां तस्यां स्वगृहमाविशत् ।
गृहस्वामी समायातो विसृज्य निजसेवकान् ॥ ३८८ ॥
स राजवंश्यः ववधूं दृष्ट्वा केनापि संगताम् ।
शिरश्चिच्छेद सुप्तस्य प्रियाचारित्रहारिणः ॥ ३८९॥
खड्ग तंद्रक्तसंसिक्तं दीप्तं बिभ्रत्स पाणिना।
तान्प्राह पान्थान्निर्गत्य जलमानीयतामिति ।। ३९० ॥
विष्णुदत्तो विनिद्रोऽथ समुत्थाय ससंभ्रमम् ।
जलं तस्मै ददौ पाणिस्थितखड्गाय वारणम् ॥ ३९१ ॥
पाणि प्रक्षाल्य राजन्ये मोहान्निद्रामुपागते ।
प्रबुद्धा छिन्नशिरसं सापश्यन्नरमङ्गना ॥ ३९२ ॥
मनःप्रियं तमादाय निहतं लघुचारिणी ।
भस्मकूटे सुपिहितं रथ्योपान्ते न्यवेशयत् ॥ ३९३ ।।
तं निधाय प्रविश्याशु प्रत्युः सुप्तस्य मस्तकम् ।
चिच्छेदाकृष्य निस्त्रिंशं घोरं हि स्त्रीविचेष्टितम् ॥ ३९ ॥
ततश्चुकोश सा तारमय प्राणपतिर्मम ।
दस्युभिर्निहतो रात्रौ तच्छ्रुत्वा विविशुर्जनाः ॥ ३९५ ॥
तैर्गृहीतांशुकाः पान्थास्ते भृशं वेषविह्वलाः ।
चौरा इति वधूवाक्यान्मूर्खा नो किंचिदूचिरे ॥ ३९६ ॥
यथावृत्तं यथादृष्टं विष्णुदत्तस्ततोऽब्रवीत् ।
"भस्मकूटान्तरधृतं तत्संदृश्य कलेवरम् ॥ ३९७ ॥
प्रत्यायातैस्तथा मुक्तो दुर्निमित्तविनिर्गतान् ।
निन्दन्वयस्यात्प्रययौ विष्णुदत्तः स्वमन्दिरम् ॥ ३९८ ।।


२. 'तान ख... खिड्गरत्ननिवारण ख.

'मी स. ५. थावस्तु ख.