पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमचुके-मूर्खाख्यायिका ]
१८९
बृहत्कथामञ्जरौ ।

अत्रान्तरे मयसुता समभ्येत्य विहायसा ।
कलिझसेना सोत्कण्ठं कण्ठे जग्राह सादरम् ॥ ३७६ ॥
चिरायाता सखीवृत्तं विज्ञाय ज्ञानचक्षुषा ।
प्राह सोमप्रभा सोमप्रभावयवशालिनी ॥ ३७६ ॥
स्वयं मयि प्रयातायां किमात्मा वत्सभूपतेः ।
त्वया प्रकाशितः सत्यमधीरं ललनामनः ।। ३७७ ॥
मन्मतं समतिक्रम्य रभसा हतसाहसम् ।
कृतं सुष्टु त्वया मौग्ध्यान्मूर्खाः साधुमतद्विषः ॥ ३७८ ॥
अन्तवेद्यां द्विजग्रामे वसुदत्तसुतो द्विजः ।
विष्णुदत्तोऽभवद्विद्यावधूविभ्रमदर्पणः ।। ३७९ ॥
स मित्रैः सप्तभिर्मुर्खैः सह गन्तुं भृशोस्थितः ।
बलिभिस्त्वरयाविष्टैरनक्षत्रे विनिर्ययौ ।। ३८० ।।
दुर्निमित्तं समालोच्य तेन ते स्थातुमर्थिताः ।
अज्ञानदुर्ग्रहग्रस्ता न व्यलम्बन्त सत्वराः ॥ ३८१ ॥
अपि यत्नेन शक्यन्ते धर्तु प्रलयमारुताः ।
विवृद्धाश्च नदीवेगा न तु मूर्खा हितद्विषः ।। ३८२ ॥
स गत्वा सह तैर्दूरं वध्वा शपथसंविदम् ।
निशि प्रतिश्रयाकाङ्खी दिवेश पुरमन्दिरम् ॥ ३८३ ॥
भुक्त्वा श्रमार्तास्ते तत्र मूर्खास्तस्यानुयायिनः ।
भृशं समाययुर्निद्रा स च जाग्रद्विचारधीः ।। ३८४ ॥
महानिद्रा महाकोषा महामोहा महाशनाः ।
मूर्खाः पशूनां वा शिष्या मूर्खाणां पशवोऽथवा ।। ३८९ ॥
सः विनिद्रस्ततोऽपश्यन्निशि तद्गृहयोषितम् ।
निम्नगामिव तारुण्यमहावेगतरङ्गिताम् ॥ ३८६ ।।


'घा खः १. 'विजयशा ख... ३. 'सादति' ख. ४. 'सुश्रु'

'भृशार्थितः ख.