पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
काव्यमाला ।

विधीयतां समारम्भस्तद्विवाहमहोत्सवे ।
तूर्ण दुर्लभलाभेषु बहुविघ्नाय सिद्धयः ।। ३६२ ॥
श्रुत्वेति भूपतिवचः प्रदध्यौ मन्त्रिकुञ्जरः ।
अभेषजेऽस्मिन्व्यसने भूपतिर्मा पतत्विति ॥ ३६॥
को ह्यसामान्यसौन्दर्यलावण्यतरणभ्रूवाम् ।
मुच्येत वशमासाद्य स्वभावरसिको जनः ।। ३६४ ।।
अमात्यश्चिन्तयित्वेति नीतिज्ञो गणकैर्व्यधात् ।
विवाहलग्नव्याजेन कालहारं महीपतेः ॥ ३६५ ।।
नृपोऽथ रत्नरुचिरं वरोद्यानमुदारधीः ।
ददौ कलिङ्गसेनायै गृहं परिणयोत्सुकः ।। ३६६ ॥
यौगंधरायणोऽप्यस्य साधै वासवदत्तया ।
पद्मावत्या च संमञ्चय कालहारमचिन्तयत् ॥ ३६७ ॥
सोऽब्रवीदेवि संस्तम्भ्य कोपीमीर्ष्यासमुत्थितम् ।
कुर्वाथां भूपतिपुरः कृतकः स्वस्थमानसम् ।। ३६८ ।।
नवोद्वाहे नरपते वर्तते भृशमादरम् ।
स धर्तु प्रातिकूल्येन शक्यः केनानिलोपमः ।। ३६९ ॥
जडा विपर्ययायैव विषमेषु तरङ्गिताः ।
संनद्धा विनिवर्तन्ते नदीवेगा इवेश्वराः ॥ ३७० ॥
आनुकूल्येन युक्त्यैव सेविता यान्ति मार्दवम् ।
वेगात्सृष्टा हि शाम्यन्ति ज्वराकाल इवेश्वराः ॥ ३७१ ।।
कालहारेण नहुषो वञ्चितः प्रार्थनापरः ।
शत्र्या चारित्ररक्षायै शके विप्रोषिते पुरा ॥ ३७२ ॥
इति संविदमाधाय मन्त्री वासवदत्तया ।
मित्रं सस्मार कार्यार्थे योगेशं ब्रह्मराक्षसम् ॥ ३७३॥
तं ध्यानमात्रमायातं वृत्तं ज्ञातुं न्यवेशयत्
गूढं कलिङ्गसेनाया मन्दिरे युक्तिकोविदः ॥ १७ ॥


स्व.२ लावण्य विलासतरल वाम' ख. ३. व्यते' ख,