पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-मूर्खाख्यायिका ]
१८७
बृहत्कथामञ्जरी ।

स तस्या मानसोल्लासपूर्णचन्द्रोदयो नृपः ।
चकारोत्कलिकालोललहरीकेलिताण्डवम् ॥ ३४९ ॥
सहसा तद्गतमतिर्बभूव लिखितेव सा ।
पुरुषोत्तममालोक्य कमलेव नवोदिता ॥ ३५० ॥
गम्भीरधीरललितं तं विलोक्य जहर्ष सा ।
धृतक्षत्रोचिताकारं हरवैरादिव स्मरम् ॥ ३५१॥
सोमप्रभा सखीं दृष्ट्वा नरेन्द्रगतमानसाम् ।
उवाच सखि तिष्ठेह पुनर्मत्संगमावधिम् ॥ ३९२ ॥
स्यन्दमानमिदं चक्षुर्नेष्टमाशंसतीव मे ।
धियैव तत्समाख्यातं कर्तव्या नाधृतिस्त्वया ॥ ३९३ ॥
यौगंधरायणगिर विमानाय नरेश्वरः ।
स तयानुगतो नित्यमभीष्टेऽतिप्रवर्तते ।। ३६४ ॥
तस्माद्यत्नाद्विधास्यामि तव वत्सेश संगतिम् ।
गच्छामि त्वमविज्ञाता विलम्बस्वेह सुन्दरि ॥ ३६५ ।।
इत्युक्त्वा दैत्यतनया प्रययौ व्योमगामिनी ।
तस्थौ कलिङ्गसेनाथ वत्सराजाभिलाषिणी ॥ ३५ ॥
ताम्यन्ती मन्मथाक्रान्ता ततः कञ्चकिनं निजम् ।
प्राहिणोद्वत्सराजाय दूतं सा वाञ्छिताप्तये ॥ ३५७ ॥
राजन्विराजमानं त्वां वरयित्री महीपतिम् ।
सुता कलिदत्तस्य प्राप्तेत्याह स भूपतिम् ॥ ३५८ ॥
श्रुत्वा विश्रुतलावण्यां स्वयं प्राप्तां नृपात्मजाम् ।
हर्षादमन्यतात्मानं धन्योऽस्मीति नरेश्वरः ॥ ३५९ ।।
ततो रहः समाहूय हृष्टो यौगंधरायणम् ।
राजेन्द्रचन्द्रः प्रोवाच विकिरन्दन्तचन्द्रिकाम् ॥ ३६० ।।
राज्ञः कलिङ्गदत्तस्य तनया रूपविश्रुता ।
वरयित्री स्वयं प्राप्ता मामद्य मदनावनिः ।। ३६१ ॥


१. व्यपोश्यैतत्समेध्यामि ख. ३. 'सामू'. ख. ३. ते ख..४. "तिः ख.