पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
काव्यमाला ।

श्रुत्वेति मन्त्रिणां वाक्यं राजा तेजोवतीं ददौ ।
राजपुत्राय गान्धर्वविधिना पूर्वसंगताम् ॥ ३३७ ॥
इत्येवं किल सौभाग्यरूपाचारकुलोचितम् ।
तेजोवती पतिं प्राप त्वमप्येवमवाप्स्यसि ।। ३३८ ॥
इति तेजोवत्याख्यायिका ॥ १३ ॥
अथार्चयित्वा श्रीकण्ठं विधिना पार्वतीपतिम् ।
नमसा जग्मतुः सख्यौ ते विमानेन भास्वता ॥ ३३९॥
वृद्धवर्षधरोपेता राजपुत्री मनोजवम् ।
यन्त्रचक्रविमानं तद्भेजे दोलाविलासवत् ॥ ३४० ॥
नृपं श्येनजितं द्रष्टुं वत्सराजं च सुन्दरी ।
प्रथिता गमनं चक्रे राजपुत्री सुधामयम् ॥ ३४१ ॥
श्रावन्ती नगरी प्राप्य विमानादधिरुह्य सा ।
सख्या श्येनजितं दूराद्दर्शितं नाभ्यमन्यत ॥ १४२॥
श्रीमानपि स राजेन्द्रस्तस्या नाभिमतोऽभवत् ।
पद्माकर इवोत्फुल्लसरत्पूर्णशशिविषः ॥ ३४३ ।।
अलक्षिता तमालोक्य प्राह सोमप्रभां ततः ।
सखि वत्सेश्वरं द्रष्टुं त्वरते मम मानसम् ॥ ३४४ ॥
इत्युक्त्वा यन्त्ररचितं विमानमधिरुह्य सा!
क्षणादेवाप कौशाम्बी विलाससदनं श्रियः ॥ ३४६ ॥
अवतीर्य वरोयाने तत्र संख्या सहोचित्ते ।
तस्थावलिकुलालोललताजालतिरोहिता ।। ३४६ ॥
अत्रान्तरे नवोद्याने विलासरसतत्परः ।
वृत्सेश्वरः समभ्यायातं देशमतुलद्युतिम् ॥ ३४७ ॥
तमालुलोके सानन्दं कम्पमानघनस्तनी ।
"कलिङ्गसेना स्वेदाम्बुक्षाल्यमानविशेषका ॥ ३४८ ॥


अख

ख. ३. श्रावस्ती' ख. ४.६ ख. ५: "विहार