पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७.मदनमचुके हरिशर्माख्यायिका ।
१८५
बृहत्कथामञ्जरी ।

प्रातर्वक्तास्मि संचिन्त्य समाभाष्येति भूपतिम् ।
निर्जने मन्दिरं तस्थौ स विप्रो ध्याननिश्चलः ॥ ३२६ ।।
अत्रान्तरे नरपतेजिह्वाख्या गर्भवाटिकाम् ।
तचौरी शङ्किता गत्वा तमपश्यदलक्षिता ॥ ३२७ ॥
सोऽपि दुःखाकुलः प्राह राजभीत्या वृथा मतिः।
धिङ्जिह्वे त्वां यया प्राणसंशयः खयमाहृतः ॥ ३२८॥
निजजिह्वामिति मुहुस्तस्य मर्त्सवतो वचः ।
श्रुत्वा सा चेटिका तूर्ण पादयोरपतद्भयात् ।। ३२९ ॥
विज्ञासा भवता पापा साहं जिह्वैव तस्करी।
इत्युक्तवाक्यतो ज्ञात्वा स दम्भमधिकं व्यधात् ।। ३३०॥
ततो राजानमभ्येत्य कृतकज्ञानगर्वितः ।
मुहुरावलितैकभ्रूर्दृष्टाङ्गुलितलो मुहुः ।
चकार प्रकटं सर्व धनं राज्ञाथ पूजितः ॥ ३३१ ॥
ख्यातिपूजासमुन्नद्धे तस्मिन्नभ्येत्य मन्त्रिणः ।
धूर्तोऽयं चौरसंकेती मूर्ख इत्यूचिरे नृपम् ॥ ३३२ ॥
राजाथ तत्परीक्षायै मण्डूकं पिहिते घटे।
निधायास्मिन्किनस्तीति प्राह तं मन्त्रिसंसदिः ॥ ३३३ ॥
पुनः स दुःखितश्चिन्ताध्याननिश्चललोचनः ।
हा मण्डूक हतोऽसीति जगादोच्चैर्भयाहतः ॥ ३३४ ॥
मण्डूकेत्यभिधा तस्य बाल्ये मात्रा कृताभवत् ।
ज्ञातं ज्ञातमिति प्राहुर्जनास्तं विस्मयाकुलाः ॥ ३३६ ॥
ततो नरपतिस्तस्मै यथेष्टं विभवं ददौ ।
इत्येवं दैवविहितं स्वयं भवति सिद्धये ॥ ३३६ }
इति हरिशर्माख्यायिका ॥ १२ ॥


१: 'गृहबेटिकाम् स. २. निजां जिह्वा' ख. ३. क्या ताख. ४. 'लालित'

५. स्तिमितलो'ख.