पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
काव्यमाला ।

गृहे कुटुम्बिनस्तस्य वैवाहिकमहोत्सव ।।
भक्ष्ये भोज्ये प्रवितीणे स ननन्द स्पृहाकुलः ॥ ३१४: ।।
दिनान्त भोजनव्याग्ने सर्वम्सिन्जनमण्डले ।
विस्मृतः क्षुत्परिक्षामः प्रदध्यौ दुःखितः क्षणम् ।। ३१५ ॥
अवमानावधूतस्स दारिद्योपरतत्विषः ।
कथमादरमाधत्ते प्रतिद्धशरणो जनः ।। ३१६ ॥
अहो विद्याविहीनोऽयं निर्धनः शोच्यतां गतः ।
दीपपात्रमिवादीपालोकं दग्धदशाश्रयात् ॥ ३१७ ।।
क्षणं स चिन्तयित्वेति निजजायामभाषत ।
विस्मृतं पश्य मां दीनमस्मिन्नुत्सवभोजने ॥ ३१८ ।।
ईति दूरतरं नीत्वा जनस्येवास्य घोटकम् ।
छन्न स्थापय विज्ञानी भविष्यामि तमर्पयन् ।। ३१९ ॥
कूटज्ञानी हयप्राप्त्या प्रसिद्धि परमां गतः ।
भावमानमवाप्स्यामि कल्पवल्ली हि धूर्तता ।। ३२० ।
इति भर्तृवचः श्रुत्वा नीत्वा सा तुरंग निशि ।
बबन्ध विजने धीरा जने मधुविमोहिते ११ १२१ ॥
हारितोऽश्व इति प्रातर्जने कोलाहलाकुले ।
ब्राह्मणी प्राह भर्ता मे हरिशर्मा प्रगष्टवित् ।। ३२२ ।।
ततः कुटुम्बिनाभ्येत्य प्रार्थितः प्राह स द्विजः ।
कृतकमहविज्ञानात्स्वाङ्गुलीगणनापरः ॥ ३९३ ॥
नातिदूरे स्थितः सोऽश्वश्चौरैर्विहितो बने ।
इति तद्वचसा लब्धे हये ख्यातो बभूव सः ॥ ३१४ ॥
ततः कदाचिद्रविणे हरिते राजवेश्मनि ।
प्रसिद्धः स समाहूतो मूल्ऽस्मीति भयाकुलः ॥ २९ ॥


३. संवन्धि स. ३. ख.

प्रमात्रमिवादीप लोके दग्धशाश्रयाद स. ६. इतो' ख. ७. "थैकरय क्षा ९, हापितो ख.