पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमचुके-हरिशर्माख्यायिका !
१८३
बृहत्कथामञ्जरी ।

राज्ञो विक्रमसेनस्य सुता तेजोवती पुरा ।
कंचिद्युवानमालोक्य बभूव स्मरतापिता ॥ ३०२ ।।
संख्या देवगृहे तेन कृत्वा संगमसंविदम् ।
निर्ययौ राजपुत्री सा स्तोकमूकविभूषणा ।। ३०३ ॥
अत्रान्तरे राजपुत्रः स गोत्रवलभीं पुनः ।
राजसंश्रयकामस्तद्देवायतनमभ्यगात् ॥ ३०४ ॥
अवाप तत्र तां दैवात्स राजतनयां युवा ।
अधन्यैराहतं नाम कल्याणीभिरवाप्यते ॥ ३०५ ॥
सा तमासाद्य दयितं तोषमध्यधिकं ययौ ।
भृङ्गी चम्पककामेव पारिजातसमागता ॥ ३०६ ।।
तत्संभोगसुधासिक्तः स राजानमवाप्य तम् ।
प्रातः समुचिता पूजां प्रपेदे गूढकामुकः ॥ ३०७ ॥
सुतां समुचितां दातुं तस्मै रतिरभूदृढा ।
कन्यावृत्तं च तत्सर्वं विवेद नृपतिः शनैः ॥ ३०८ ॥
तद्विज्ञायः क्षितिपतिनिजामात्यानभाषत ।
सोमदत्ताय कन्येयं मनसा कल्पिता मया ॥ ३०९ ।।
खयं गान्धर्वविधिना पूर्वमेव धृतोऽनया ।
विधिरेव समाधानं यातं सदृशसिद्धये ॥ ३१० ॥
राज्ञः श्रुत्वेति वचनं प्रत्यभाषन्त मन्त्रिणः ।
दिष्ट्या सदृशयोगेन शोच्येयं न तवात्मजा ॥ ३११ ॥
स्वयं वृतोऽनया श्रीमान्राजपुत्रः कुलोचितः ।
देव दैवेन लिखितं प्रमा कस्य कः क्षमः ॥ ३१२ ।।
हरिशर्मा पुरा विप्रो दारिद्रयाद्दासतां गतः ।
कुटुम्बिनो धनवतः सभार्यः सह पुत्रकः ॥ ३१३ ॥


१. विहतः ख. २. यात्' ख. ३. ख. ४. 'राज्ञोऽपि वसुतां दातुं त

मतिरभूख, ५. "जात न.. 'इसति ख.