पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
काव्यमाला ।

मयपुत्री निशम्येति प्राह साश्रुविलोचना ।
अहो नु दग्धविधिना न योग्यः संगमः कृतः ।। २९० ।।
त्रैलोक्यसुन्दरीः सूत्रः प्रक्यास्त्वथः पार्थिवः ।
मधुपोऽर्हति न स्पृष्टुं बालां कल्पलतामिव ।। २९१ ।।
बत्सेशोदयनो नाम कौशाम्ब्यामस्ति भूपतिः
स ते समुचितः कान्तवरो गौर्या इवेश्वरः ।। २९२ ।।
तस्य वासवदत्तास्ति दयिता रूपशालिनी ।
सा लेभे तनयं तस्माद्भावि विद्याधरेश्वरम् ॥ १९३ ।।
इत्युक्त्वा वत्सराजस्य वंशवृत्तान्तविक्रमान् !
निवेद्य निखिलं सख्यै पुनराह नृपात्मजाम् ।। २९४ ।।
त्वां वीक्ष्य वत्सराजोऽसौ ध्रुवं तां त्यक्ष्यति प्रियाम् ।
कमला कमलं दृष्ट्वा नान्यदब्जं स्पृशत्यलिः ॥ २९५ ॥
उषाया चित्रलेखासौ बाणपुत्र्या यथा पुरा ।
प्रद्युम्नि संगम चक्रे करिष्यामि तथाद्य ते ॥ २९६ ॥
इत्याकर्ण्य सखीवाक्यं राजपुत्री जगाद ताम् ।
अन्याभिः सखि भूपालः कान्ताभिः स निषेव्यते ॥ २९७ ॥
महासेनसुतासक्तो दुर्लभोऽन्यजनस्य तु ।
अकामकामाः कामिन्यः सखि गच्छन्ति हास्यताम् ॥ २९८॥
राजपुत्र्या निशम्येति प्राह सोमप्रभा पुनः ।
यत्नमत्र विधास्यामि दैवायत्तास्तु सिद्धयः ॥ २९९ ॥
स्वयं श्येनजितं पूर्व वीक्ष्य गौडमहीपतिम् ।
सत्प्रभावोदितारातिः प्रेक्षखोदयने पुनः ॥ ३०० ॥
लावण्यस्यास्स ते सुझु सौभाग्यस्य कुलस्य च ।
ध्रूवं समुचितं सर्व चन्द्रचूडः करिष्यति ॥ ३०१ ॥


(स्त्वां सपा ख. २. 'वसु ख..३. 'प्रास. ४. ध ख. ५. 'स्य जन'

बान्त्येवल 'मत्प्रभावोदितगतिः स. ९. नंततः