पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

यः प्रांशुरश्मिनिव[१]र्विदधाति मुहुर्मुहुः ।
त्रिदिवोद्यानहंसानां मृणालकवलभ्रमम् ॥ ९ ॥
यस्याश्मकूटसंघट्टविशीर्णपतनोत्थिताः ।
मुहूर्तं तारकायन्ते व्योम्नि गङ्गाम्बुरा[२]शयः ॥ १० ॥
फेनहासविलासिन्यः फुल्लत्कुवलयेक्षणाः ।
विभान्ति कटके यस्य तरङ्गिण्यो महीभृतः ॥ ११ ॥
उत्तरे तस्य कैलासनाम्नि स्फाटिकशेखरे ।
विजहार हरो हारगौरे गिरिसुतासखः ॥ १२ ॥
नीलोत्पलद्युतिमुषा यस्य कण्ठविषत्विषा ।
मुहुर्गौरीकपोलेन्दोः क्रियते लाञ्छनच्छविः ॥ १३ ॥
विभाति भूषाभुजगैः खण्डेन्दुविष(श)शङ्कया ।
कपालकलहंसैर्यः संत्यक्तैरिव सै(शै)वलैः ॥ १४ ॥
यस्यामरसरित्तुङ्गतरङ्गालिङ्गितः शशी ।
धत्ते मूर्ध्नि सुधासिन्धुभर्गस्थितिसुखं सदा ॥ १९ ॥
ताण्डवे यस्य दोर्दण्डमण्डलोद्भूतभस्मभिः ।
छन्नास्तुहिनशैलेन स्पर्धां बिभ्रति भूभृतः ॥ १६ ॥
यस्यालोक्य घनच्छायं कण्ठं स्कन्दशिखण्डिनि ।
मुहुः प्रनृत्ते हाराहिर्व्याजिह्माक्षं व्यचेष्टत ॥ १७ ॥
कपालकुहरावर्तक्षुभ्यद्गङ्गाम्बुबिन्दुभिः ।
यः शेखरशशिप्रीत्या नक्षत्रैरिव सेव्यते ॥ १८॥
यस्यातिहासाः क्षुभितक्षीराब्धिधवलश्रियः
कर्णचामरतां यान्ति कैलाससुरदन्तिनः ॥ १९ ॥
तं कदाचिद्गिरिसुता रहः प्रणयमन्थरम् ।
प्राह वक्राम्बुजाकृष्टभ्रमरारावविभ्रमम् ॥ २० ॥
देवाखिलजगत्सर्गस्थितिसंहारकारण ।
यस्य वेदः समुन्मेषः कस्तं त्वां स्तोतुमीश्वरः ॥ २१ ॥

  1. निचयै ख.
  2. 'शीकराः’ ख.