पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

काश्मीरिकमहाकविश्रीक्षेमेन्द्रविरचिता

बृहत्कथामञ्जरी ।

कथापीठनामा प्रथमो लम्बकः।

प्रथमस्तरङ्गः।

उमाप्रणामसंक्रान्तचरणालक्तकः शशी !
संध्यारुण इवाभाति यस्य पायात्स वः शिवः ॥ १ ॥
सरस्वतीविभ्रमदर्पणानां सूक्तामृतक्षीरमहोदधीनाम् ।
सन्मानसोल्लाससुधाकराणां कवीश्वराणां जयति प्रकर्षः ॥ २ ॥
दोषांलोकननिपुणाः परुषगिरो दुर्जनाश्च धूकाश्च !
दर्शनमपि भयजननं येषामनिमेषपिशुनानाम् ॥ ३ ।।
ओजोरञ्जनमेव वर्णरचनाश्चित्रा न कस्य प्रिया
नानालंकृतयश्च कस्य न मनःसंतोषमातन्वते।
काव्ये किं तु सतां चमत्कृतिकृतः सूक्तिप्रबन्धाः स्फुटं
तीक्ष्णाग्रा झटिति श्रुतिप्रणयिनः कान्ताकटाक्षा इव ॥ ४ ॥
एवं किल पुराणेषु सर्वागमविधायिषु ।
विश्वशासनशालिन्यां श्रुतौ च श्रूयते कथा ॥ ५ ॥
अस्ति विद्याधरवधूविलासहसितद्युतिः ।
जाह्नवीनिर्झरोष्णीषः शर्वाणीजनको गिरिः ।। ६ ।।
निशाकरकरस्मेरतुषाररुचिरत्विषा ।
आशा धनपतेर्येन विभात्यनिशचन्द्रिका ।। ७ ।।
यः शुभ्रशिखरो भाति शिवमौलीन्दुदर्शनात् ।
तरङ्गालिङ्गिताभ्रश्रीः क्षीरार्णव इवोत्थितः ॥ ८ ॥