पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-कथावतारः ।।
बृहत्कथामञ्जरी।

त्वन्मायामयनिर्माणजगद्वैचित्र्यसंकथाम्
अनन्याकर्णितां चेतः श्रोतुमुत्कण्ठते मम ॥ २२ ॥
इति प्रियावचः श्रुत्वा हर्षव्याकोशलोचनः ।
प्राह कृत्वा कुरङ्गाक्षीमङ्के शीतांशुशेखरः ॥ २३ ॥
किं तवाविदितं देवि चित्तसागरचन्द्रिके ।
त्वं हि पीयूषसहिते जीवितं नो बहिश्वरम् ॥ २४ ॥
अनन्तरूपं मां द्रष्टुं पुरा हरिचतुर्मुखौ ।
पातालमन्तरिक्षं च जग्मतुः कौतुकाकुलौ ॥ २६
अनासाद्यैव पर्यन्तं महतो महसो मम ।
महादेवोऽयमित्युक्त्वा चक्राते तौ तपस्ततः ॥ २६ ॥
मदेकभक्तिर्मद्वाक्यादभूत्पूज्यतमो हरिः ।
सुतं मामीहमानोऽभूदपूज्य[श्च] प्रजापतिः ॥ २७ ॥
सैव त्वं मम लोलाक्षि दयिता वैष्णवी तनुः ।
मम धाम सहस्रांशुः शशी तब शुचिस्मिते ।। २८ ॥
सुभ्रु दक्षस्य तनया पुरा भूत्वा मम प्रिया ।
देहं पितुर्निकारेण त्यक्तवत्यसि भामिनि ॥ २९ ॥
स हि यज्ञे सुरगणं समानाय्य प्रजापतिः ।
तदा महोत्सवं चक्रे प्रीणिताशेषबान्धवः ॥ ३० ॥
तत्र प्रनृत्तगीर्वाणललनागीतनादिते।
अहं कपालमालीति पित्रा ते न निमन्त्रितः ॥ ३१ ॥
त्वत्कोपादिष्टमार्गेण मम क्रोधभुवा मखः।
गणेनाकारि दक्षस्य कथाशेषमहोत्सवः ॥ ३२ ॥
यत्परीवादकोपेन त्यक्त्वा दक्षभवां तनुम् ।
सुता तुहिनशैल[१]स्य जातासि यशसां निधेः ॥ ३३ ॥
शंभोः शरीरार्धहरा भवानीयं तवात्मजा ।
इति शुश्राव शैलेन्द्रो नारदाज्जनकस्तव ॥ ३४ ॥


  1. 'शील’ ख.