पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
काव्यमाला ।

सुतं धनाधिनाथस्य भर्तारं नलकूबरम् ।
इति सोमप्रभा श्रुत्वा राजपुत्रीमभाषत ।। २६६ ।।
त्वं यौवनबती कान्ता स युवास्ति विशृङ्खलः ।
परस्परविरुद्धं हि दर्शनं तब तस्य च ॥ २६७ ।।
इर्ष्याकोपेन नौ तत्र सौहार्दै नङ्क्ष्यति ध्रुवम् ।
नदीकूलद्रुमस्यैव स्नेहस्ते नो विपत्तये ॥ २६८ ।।
उक्त्येति प्रययौ दिक्षु तन्वाना कान्तिकौमुदीम् ।
हम्यें कलिङ्गसेना च तस्थौ व्योमावलोकिनी ।। २६९ ॥
ततो यदृच्छयायातो विद्याधरधराधिपः।
युवा मैन्दरवेगाख्यस्तां ददर्श नभोगतिः ॥ २७० !
तां वीक्ष्य स्मरसौन्दर्य विभ्रमाणां समागमम् ।
अमृताहरणे शौरेः शिष्यां कान्तांकृतामिव ।। २७१ ।।
सोऽभवन्मन्मथशरासारजर्जरितस्मृतिः ।
तया दृष्टिविषणेव भुजङ्गया मुहुरर्दितः ।। २७२ ॥.
स धैर्य क्षिप्रमास्थाय कथं विद्याधरस्य मे ।
मानुषी मोहयेच्चित्तमिति ध्यानपरोऽभवत् ।। २७३ ।।
ततो विवेद प्रज्ञप्तिविद्यया गुलिकाधरः ।
स तामप्सरसः शापादवतीर्णा शतक्रतोः ॥ २७४ ॥
कृत्वेति तद्तमना कालंजरिगिरौ निजाम् ।
राजधानी समभ्येत्य तस्थौ सुखपराङ्मुखः ।। २७५ ।।
स हेमकदलीकुञ्जे किन्नरीगीतनादिनि ।
तां राजतनयां ध्यायन्न लेभे तत्र निर्वृतिम् ॥ २७६ ।।
चिन्तयंस्तन्मुखाम्भोज भेजे नान्तःपुरे रतिम् ।
मन्दारमालामालोक्य मालत्यां को हि सादरः ।। २७७ ॥


'पति'ख,२.तिनयं ख, ३. 'मदन- ख. ४. 'गतः रख. ५. ताकृतिः न.

'भात्चेति ब. ८ कालकूटगिरौं ख.