पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चके--हरिशर्माख्यायिका ।]
१७९
बृहत्कथामञ्जरी ।

देवीकरतलन्यस्तकपालो वीक्ष्य तं नृपः ।
निभृतोऽभूच्छुभप्राप्तौ मनः पूर्व प्रसीदति ॥ २५४ ॥
ततो यथोक्तं राक्षस्या सा विधाय महीपतेः ।
चकर्ष शिरसो व्याधि येन खस्थोऽभवत्क्षणात् ॥ २६५ ॥
व्याधिमुक्तोऽथ नृपतिर्वैद्यवेषामुवाच ताम् ।
राज्यं ममाश्वरत्नाढ्यं गृहाणेति प्रसन्नधीः ।। २५६ ।।
साब्रवीव्यासभूतं मे संप्रति त्वयि तिष्ठतु ।
याचितो दास्यसीत्युक्त्वा गूढा तस्थौ तदालये ॥ २६७ ।।
ततः कालेन स वणिग्देवसेनः समाययौ ।
महाभाण्डधनाभोगपूरिताशेषपत्तनः ॥ २५८ ॥
राज्ञा निवारितं गन्तुं शुल्कायतमुपेत्य सा ।
चिरसंगमपीयूषप्लाव्यमानाभवन्मुहुः ।। २५९ ॥
देवसेनः स विज्ञाय कीर्तिसेनां सकौतुकः ।
दृष्ट्वा निशम्य वृत्तान्तं बभूव प्रमदाकुलः ॥ २६० ॥
भूपालोऽपि तदाश्चर्य विदित्वा निखिलं ततः ।
उवाच धर्मभगिनी ममेयं त्वं स्वसुः पतिः ।। २६१ ।।
वैद्यवेषं विधायैषा "जीवितं विततार मे
इत्युक्त्वा वणिजे राजा राज्यार्ध मुदितो ददौ ॥ २६२ ॥
इति श्र्वश्र्वा सुविपुले पातिता शोकसागरे।
कीर्तिसेना स्वधैर्येण तारिता प्राय वल्लभम् ॥ २६३ ॥
इति कीर्तिसेनाख्यायिका ॥ ११ ॥
कलिङ्गसेनतनया निशम्येति सखीवचः
सतीचरितमाश्चर्य प्रदध्यौ मनसा सती ।। २६.४. ॥
ततोऽहि तनुतां याते वयस्यां गन्तुमुद्यताम् ।
कलिङ्गसेना प्रोवाच सखि दर्शय मे निजम् ॥ २६५ ।।


१. "तिघसी' क. २. 'सुरा क. प्रज्ञाय ते ख. ४."परिव.

५. संग्राहा जीविताय ख... "धमे