पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
काव्यमाला ।

ततोऽर्धरात्रे संप्राक्षे राक्षसी सह पुत्रकैः ।
छायामिव कृतान्तस्य ददर्शलिखि(लक्षि)ता पुरः ॥ २४१ ।।
भोजनं याच्यमानासौ तनयास्तानभाषत ।
महाकालेन निर्दिष्टं भोजनं नो भविष्यति ॥ २४१ ।।
वसुदत्ताभिधो राजा वसुदत्तपुराधिपः ।
शतपद्या समानान्तः कर्णरन्ध्रप्रविष्टया ॥ २४ ॥
तत्प्रसूतैः शतपदीशतैर्व्याप्तशिरोन्तरः ।
अविज्ञातामयो वैद्यैर्भविता पूर्णभोजनम् ॥ २४४ ।।
श्रुत्वेति कौतुकाविष्टैः सा पृष्टा राक्षसैः सुतैः ।
नृपस्य जीवितोपायं वीतशंङ्कमभाषत ।। २४५ ॥
धृताभ्यक्तः स मध्याह्नतापे संतप्तपायसैः ।
उपलिप्तं शिरः कृत्वा श्रवणे वेणुनालकाम् ॥ २४६ ।।
स्थापयेन्नालिकाप्रान्ते कुम्भं यदि सुशीतलम् ।
ततोऽस्मिन्निःसरन्त्येव शतपद्यो न संशयः ॥ २४७ ॥
किमनेनाथवास्माकं यातु राजा स पञ्चताम् ।
अस्मत्संतृप्तये तूर्णमित्युक्त्वा राक्षसी ययौ ॥ २४८ ॥
कीर्तिसेना निशम्यैवं प्रातस्तं प्रययौ नृपम् ।
अदूरवासिनं क्षिप्रं वैद्यवेषोपलक्षिता ॥ २४९ ॥
पूर्णेन्दुसुन्दरमुखः श्रीमानेक इवाश्विनोः ।
सुकुमारारविन्दाक्षो वैद्यो देशान्तरामतः ।। २५० ।।
नृपं स्वयं विधास्यामि द्वारपं प्रति दर्शयन् ।
प्रविष्ट इति राजानं प्रतीहारो व्यजिज्ञपत् ॥ २५१॥
ततः क्षिप्रं समाहूय राज्ञा देव्या च पूजिता ।
वैद्यवेषाविशत्क्षिप्रं कीर्तिसेना नृपालयम् ॥ २५२ ॥
देवर्श नृपतिं तत्र क्षयक्षीणमिवोडुपम् ।
शोषितं धूणसंधेन छायावृक्षमिवाततम् ॥ २९३ ॥


प्रतिज्ञासय क... हुता' ख... ३. नितम् न,