पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमचुके-कीर्तिसेनाख्यायिका ।]
१७७
बृहत्कथामञ्जरी।

उक्त्वेति तत्परिजन निरस्य सहसा गृहम् ।
भयात्प्रसन्नवदनां पुनरीह परेऽहनि ।। २२८ ॥
हासशीले तब पतिर्भयाद्देशान्तरं गतः ।
त्वं तु वेश्येव नि:स्नेहा विलासेनेक्षसे जनम् ॥ २२९ ॥
इति नानाविधोद्वैगैः सावेगक्रोधदुःसहैः ।
बाक्सायकैस्तामसंकृज्जधान विरहेऽपि सा ॥ २३० ।।
समय तद्वधोपायं तामथान्धगृहोदरे ।
रक्षेऽहं भर्तृद्रविणं स्वमित्युक्त्वा न्यवेशयत् ॥ २३१ ।।
श्वश्र्वा च पिहिते तत्र न्यस्ता सा निविडार्गले ।
सदाशनचतुर्भाग लेभे भग्नशरावके ।। २३२ ॥
शशवकर्परेणाथ सा चखान गृहं शनैः ।
दैवात्प्राप्तेन च पुनः खनित्रेण महाबिलम् ॥ २३३ ।।
तेनैव निशि निर्गम्य गृहीतकनकाम्बरा ।
विधाय पौरुषं वेषं वलभीप्रमुखं ययौ ॥ २३४ ।।
पथि सार्थपतिं प्राप्य कृतराजसुताकृतिः
प्रययौ पुरुषस्पर्शपरिहारपरैव सा ॥ २३५ ॥
ततस्तमित्महासार्थे पपाताशनिवन्निशि ।
चौरसेना विधौ वामे त्रुट्यन्त्यालम्बनान्यपि ॥ २३६ ॥
सा चौरमयवित्रस्ता सार्थे निःशेषतां गते।
उवास गूहां रजनीं तृणे भूकुहरान्तरे ॥ २३७ ।।
प्रातस्ततो विनिर्गत्य प्रविष्टा विकटाटचीम् ।
सिंहव्यालैर्न निहता सतीतेजोऽतिदुःसहम् ।। १३८ ।
राजपुत्राकृतिं दृष्ट्वा तामथ श्रमतापिताम् ।
कारुण्यात्सलिलैः शीतै वितृष्णामकरोन्मुनिः ॥ २३९ ।।
तिरोहिते मुनिसुते निशीथे प्रत्युपस्थिते ।
सा तस्थौ दस्युचकिता सुषिरद्रुमकोटरे ॥ २४ ॥


'रेवा' ख, २. 'साह ख. ३. वां निवेध्वति ख. ४. कोऽपिज.