पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
काव्यमाला ।

अन्तःपुरगता तत्र कदाचिदशृणोद्वचः ।
सोमप्रभाया विश्रम्भकथासु मृगलोचना ॥ २१६ ॥
सखि मन्ये यदा कश्चिद्वरस्त्वां परिणेप्यति
तदा नौ सहवासोऽयं ध्रुवं दूरीभविष्यति ॥ २१७ ।।
प्रवेक्ष्यामि कथं खैरं सखि भर्तृगृहं तव ।
जामिश्वश्रूजनायत्तं विषमं भर्तृमन्दिरम् ॥ २१८ ॥
इति स्वयंप्रभासमागमः ॥ १० ॥
शृणु श्वश्रुकृतैर्दुःखैर्यशाप्ता कीर्तिसेनया ।
विपत्स्वबुद्ध्या च यथा निस्तीर्णा व्यसनोदधिन् ।॥ २१९ ।।
धनपालित इत्यासीद्वणिक्पाटलिपुत्रके ।
कीर्तिसेनाभवत्तस्य कन्या लावण्यवाहिनी ॥ २२० ।।
तां यौवनवतीं काले स सारङ्गविलोचनाम् ।
देवसेनाय वणिजे मगधावासिने ददौ ।। २२१ ॥
सा भत्री ललिता स्वैरं श्वश्र्वा कलहपीडिता।
उवाच गेहे श्रीखण्डचने सर्पाकुले यथा ॥ २२२ ।।
ततः कदाचिद्वैलभीं प्रस्थितो द्रविणार्जने ।
देवसेनः प्रियावेश्म विवेशामन्त्रणोद्यतः ।। २२३ ॥
तमब्रवीत्तीतिसेना त्वयि याते ध्रुवं विभो ।
भर्त्तयिष्यति मां श्वश्रूः कलहेन निरन्तरम् ।। २२४ ॥
इति प्रियावचः श्रुत्वा संस्तभ्य विरहव्यथाम् ।
ययौ मातरमाभाष्य वर्तयेथाः स्नुषामिति ॥ २२९ ।।
तस्मिन्गते तज्जननी सततं क्रोधमूर्छिता ।
वियोगदुःखितां प्राह कीर्तिसेनां नताननाम् ॥ २२६ ।।
सुकृते नित्यरुदिते दुर्भगे मङ्गलोज्झिते ।
बाष्पं ते पितुरेवास्तु पुत्रो जीवतु मे चिरम् ॥ २२७ ॥


१. 'स्खा ख. २. 'कलिङ्गदेनाकथा' स. ३. वेगेनैधती' ख. 'पाख.

५. जलधि ख. ६. भिन्द्रय ख, ७. 'स्वत्कृ' ख.