पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चके खयंप्रभासमागमः ।]
१७५
बृहत्कथामञ्जरी।

सा तत्र राजभवने पूजिता तेन भूभुजा ।
विजहार समं सख्या विहारे तारहारिणी ॥ २० ॥
सा यन्त्रपुत्रिकानीतदिव्यकाञ्चनपङ्कजैः ।
विहारपूजनं चक्रे ततोऽभूद्विस्मितो नृपः ॥ २०६॥
अनुज्ञाता ततः पित्रा सहान्तःपुररक्षिभिः ।
मायायन्त्रविमानेन तां निनाय मयात्मजा ॥ २०६॥
नीता स्वयंप्रभा दृष्टुं ज्येष्ठां स्वभगिनीं तया ।
पुरं ददर्श वैचित्र्यचित्रकर्नेव वेधसः ॥ २०७ ।।
तत्रापश्यज्जटापुञ्जविराजिवदनां वधूम् ।
नलिनीमिव शैवालजटालोत्फुल्लपङ्कजाम् ॥ २० ॥
स्फाटिकेनाक्षसूत्रेण विराजितकराम्बुजाम् ।
कैरप्रस्तुतलावण्यबिन्दुमालाङ्कितामिव ॥ २०९ ॥
उच्छूनकुचपर्यङ्क(न्त)पर्यस्तधवलांशुकाम् ।
चक्रवाकयुगन्यस्तफेनवेगामिवापगाम् ॥ २१०॥
विलोक्य तां राजपुत्रीं प्रणनाम नताननाम् । :-
भ्रस्य(श्य)त्कर्णोत्पलरजोरेखासंवलितस्तनीम् ।। २११ ॥
स्वयंप्रभा राजपुत्रीं तां विलोक्य सुलोचनाम् ।
नामाभिजनभाकर्ण्य फलान्यस्यै स्वयं ददौ ॥ २१२ :-
जरानिवारणान्याशु भुक्त्वा तानि फलानि सा ।
बभूव बाला पीयूषक्षालितेवाधिकद्युतिः ।। २१३ ॥
ततो विचित्रमुद्यानं दिव्याभिप्रायनिर्मितम् ।
वापीं च काञ्चनाम्भोजां दृष्ट्वाः प्रीतिमवाप सा ॥ २१४ ॥
स्वयंप्रमामथामन्त्र्य सा सोमप्रमया सह ।
ययौ यन्त्रविमानेन पितुस्तक्षशिलां पुरीम् ॥ २१५ ॥


१. 'तत्र स. २. 'श्री' ख. ३. 'तनुप्रसूत' ख. ४. 'उदृत्त' ख. ५. 'त्री'

८. संत्रान्ता' खः ९. 'ततो ख.