पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
काव्यमाला ।

अमृतं तत्पयो दिव्यं ददौ तस्यै सुदुर्लभम् ।
गावोऽवतीर्णा लोकेऽस्मिंस्ततामृत्येव पावनाः ॥ १९३ ॥
तदेषा कापि मे देवी सखी पुण्यैः सभागता ।
कलिङ्गसेना ध्यात्वेति निनाय रजनीं शनैः ।। १९४ ।।
अथापरेखुरादाय विचित्रा यन्त्रपुत्रिकाः ।
सखी समस्ययातूर्ण सोत्कण्ठा मयपुत्रिका ॥ १९५ ॥
सा बभाषे तया पृष्टा सुताहमसुरप्रभोः ।
मयस्य मायावैचित्र्यधाम्नः सोमप्रभाभिधा ।। १९६ ॥
स्वयंप्रभा मे भगिनी सास्ते पातालमन्दिरे ।
हनूमत्प्रमुखैर्दृष्टा सीतान्वेषगतैः पुरा ॥ १९७ ॥
कुबेरतनयः श्रीमान्भर्ता ने नलकूबरः ।
यच्छापात्स दशास्योऽपि नाभूत्परवधूविमुः ॥ १९८ ॥
इत्युक्त्वा यन्त्रवैचित्र्यात्सजीवा यन्त्रपुत्रिका ।
करण्डिका समुद्धाट्य ददौ सख्यै प्रिया यतः ॥ १९९ ॥
ततो गूंढसखीसक्तां त्यक्ताहारां सुतां नृपः ।
अस्वस्थां मन्यमानस्तां वैद्यं पप्रच्छ दुःखितः ॥ २०० ।।
वैद्योऽवदद्वाजपुच्या राजन्व्याधिर्न लक्ष्यते ।
प्रेमातिहर्षसंपूर्णा नाभिनन्दति भोजनम् ॥ २०१ ।।
ततो विज्ञाय वृत्तान्तं दुहितुरतां च तत्सखीम् ।
कलिङ्गदत्तो देवी च परां मुदमवापतुः ॥ २०२ ।।
पिता विदितवृत्तेन दत्तानुज्ञा च सा तदा ।
सोमप्रमा सविश्रन्ममियेष प्रकटां संखीम् ॥ २०३ ॥


१. स्तितः प्रभृति स्व. २. 'सजीचा ख.. ३. 'याखौ ख.

"जानकीमार्गणैः 'ता' ख. ५. 'मूढां त्यक्तभोज्यां मोहितां वीक्ष्य भूपतिः" ख. 4 राशा खा