पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-खयंप्रभासमागमः ।]
१७३
बृहत्कथामञ्जरी ।

सखे नाडीव्रणस्यास्य संनद्धो भव रोहणे ॥ १८१ ॥
इति श्रुत्वा पिशाचोऽसौ मुग्धस्तद्वचनं मृदु ।
यत्नाहृतौषधनातैस्तत्परः कृशतां ययौ ॥ १८२ ॥
प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च ।
संसारचक्र विभ्रान्तः कः पिधातुं तदीश्वरः ॥ १८३ ॥
ततः पिशाचः संविनश्चिरात्कुण्ठक्रियाक्रमः ।
भयात्पलाय्य प्रययौ गर्हयन्निजदुर्ग्रहम् ॥ १८४ ॥
इत्येवं दुर्ग्रहात्मानः पिशाचा राजयोनयः ।
सदा कलुषचित्ताश्च राजपुत्रास्ततोऽधिकाः ॥ १८५ ॥
मुहूर्तबद्धसौहार्दा विलज्जा बहु सेविताः।
लुब्धा नृपाश्च वेश्याश्च दूरस्था एव शोभनाः ॥ १८६ ।।
इति पिशाचाख्यायिका ॥ ९ ॥
वचः कलिङ्गसेनायाः श्रुत्वेत्यसुरकन्यका ।
उवाच चन्द्रवदना वीक्ष्य संध्यारुणं नमः ।। १८७॥
अयं कमलिनीकान्तः प्राप्तोऽस्ताचलमौलिताम् ।
गच्छामि पुनरेष्यामि पन्था मे षष्टियोजनः ॥ १८८ ॥
इत्युक्त्वाकाशमाविश्य तूर्ण सोमप्रभा ययौ ।
विधाय वदनोद्योतैर्बहु सोमप्रभं नमः ॥ १८९ ।।
ततः सख्यां प्रयातायां राजपुत्री व्यचिन्तयत् ।
केयं विद्याधरी देवी भुजङ्गी वा सखी मम ॥ १९० ॥
श्रूयते मानुषैः सख्यं भजन्ति किल देवताः ।
पृथ्वीपतेः पृथोः पूर्व पुच्या सख्यमरुन्धती ॥ १९१ ॥
भेजे नयन्मार्गेण प्रीतिर्हि विशति स्वयम् ।
बासिष्ठधेनुं तद्वारयादीनिनाय च भूतलम् ॥ १९२. ।।


२. वम विततं ख. ३. माताः' ख. ४. 'जडबुद्धयः ख.

५. 'शठा ख. ६. 'कन्या' ख. ७. 'जनः ख.. ८. 'मामिव ख... 'देवो ख. १०. पृथुरानीय भूख.