पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
काव्यमाला ।

शून्याशयाः प्रिया घोरा दुःखसाध्या विकारिणः ।।
मित्रविद्वेषिणो ज्ञेया पिशाचा इव भीषणाः ॥ १६९ ॥
कथां शृणुः पिशाचानां राजपुत्रानुकारिणाम् ।
पुरा यज्ञस्थलग्रामे ब्राह्मणोऽल्पधनोऽभवत् ।। १७० ॥
कदाचित्स कुठारेण भिन्दन्काष्ठाग्रमक्षमः ।
अपाटयन्निजां जङ्घां तेनाभूत्परमातुरः ।। १७१ ॥
सर्वोपायपरिक्षीणैः सँ(त)तस्त्यक्तश्चित्कित्सकैः
नाडीव्रणार्त्तो वंशः मित्रस्य स वाक्याद्व्यक्तिमाप्तवान् ॥ १७२ ॥
पिशाचं साधयेत्येवं मित्रवाक्यार्थतत्परः ।
अतोषयन्निशि महापिशाचं बलिपुष्पदः ।। १७३ ॥
ततो वरात्पिशाचस्य तद्दत्तैरौषधिवजैः ।
स्वस्थः स्वच्छन्दसंचारो विजहार सुखं द्विजः ।। १७४।।
रूढनाढीत्रणं काले तमुवाच पिशाचकः ।
रोहत्येवं मया दृष्टं द्वितीयं दर्शय व्रणम् ॥ १७५ ।।
अपरं चेद्रणं विप्र न मे दर्शयसि स्फुटम् ।
मया क्रोधानलाज्यत्त्वं नीतो नैव भविष्यसि ।। १७६ ।।
पिशाचवाच श्रुत्वेति पुनश्चिन्ताग्नितापितः ।
पप्रदधौ स्वगृहं गत्वा निःश्वासग्लपितावरः ॥ १७७ ।।
ग्रस्त एवारिस पापेन कुतो नाडीव्रणी जनः
इति ध्यायन्स सुतया दृष्टो नष्टधृतिस्मृतिः ॥ १७८ ॥
दृष्ट्वा विज्ञाय वृत्तान्तं सा चेण्डी निखिलं पितुः ।
नाडीव्रणं पिशाचाय दर्शयामीत्यभाषत ।। १७९ ॥
स पिशाचः समाहुतो हृष्टेनाथ द्विजन्मना !
विदग्धा विजने प्राप तत्सुतां दुर्ग्रहाकुलः ॥ १८० ॥
वराङ्गं विवृतं कृत्वा सा पिशाचमभाषत ।


१. भूपाः ख. २. 'चिर ख.३, “कृश ख. ४. 'ध ख. ५. 'गुण्डा' ख.