पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्जुके-पिशाचाख्यायिका ।]
१७१
बृहत्कथामञ्जरी ।

यथोक्तमेव देवीमिहारं प्राप्य फलानि च ॥ १५६ ।।
वणिक्पुत्रेण सहसा निषिद्धो नाग्रहीत्स तम् ।
महागृहनिपाताञ्च तेनैवाभ्येत्य रक्षितः ॥ १७ ॥
ततः स विहितोद्वाहो नवकान्तासमागमः ।
उवास राजतनयः श्वशुरावसथे सुखम् ॥ १५८ ॥
वणिक्पुत्रोऽपि रक्षायां तस्यासीच्छन्नविग्रहः ।
क्षुतो(सुप्तो) विनिद्रः शुश्राव क्षुतशब्दशतं निशि ॥ १५९ ॥
जीव जीवेति शब्दानां स स्वैरं शतमभ्यधात् ।
इत्यस्य शापनिर्वाणं विदधे स सुहृद्वरः ।। १६० ।।
ततः प्रभाते वि(प्र)च्छन्नो निर्गतोऽन्तःपुराद्वणिक् ।
दृष्टो राजसुतेनाशु क्रोधव्याकुलचेतसा ॥ १६१ ।।
अयमन्तःपुरे पापच्छन्नो निशि करोति किम् ।
इत्युक्त्वा भृकुटीभ्रान्त्या दिदेशास्य वधं क्रुधा ॥ १६२ ॥
स राजपुत्रवचसा गाढबद्धः पुरःसरैः ।
अचिन्तयदहो कष्टा नृणां राजकुले स्थितिः ॥ १६३॥
व्याला सुखेन सेव्यन्ते वातोद्भूताश्च वह्वयः ।
नतु नित्यमदाध्माता राजानः कुटिलाशयाः ॥ १६४ ॥
ध्यात्वेति दुःखसंतप्तो राजपुत्रमुपेत्य सः ।
हितं यया कृतं सर्वे तत्त्वमस्मै न्यवेदयत् ॥ १६५ ।।
ततस्तत्त्वविचारेण राजपुत्रो वणिक्सुतम् ।
हितैषिणं प्रियं मित्रं प्रसाद्य मुदितोऽभवत् ॥ १६६.।।
इत्येवं राजभिः सख्यं सखि दुःखेन रक्ष्यते ।
को हि सुप्तेन सिंहेन कृतकण्ठग्रहः स्वपेत् ॥ १६७ ॥
इति राजपुत्राख्यायिका ॥८॥
कलिङ्गदत्ततनया निशम्येति सखीवचः ।
उवाच सत्यमेवैते कृतघ्नाः सखि भूमिपाः ।। १६८ ॥


'स्यैव ख. 'अन्तःपुरे स ख.