पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
काव्यमाला ।

मनसा स प्रियहितव्रतः सोऽभूद्वणिक्सुतः ॥ १४४ ॥
राजपुत्रोऽपि जन्यर्थयात्रायां मित्रसंवृतः ।
उदयाद्विरिव प्रायात्सित्तच्छन्नेन्दुमण्डलः ॥ १.४५ ॥
स व्रजन्पथि विश्रान्तः सैनिकैः सुहृदा सह ।
विवाहोत्कण्ठितो बीतनिद्रो धात्रीमभाषत ।। १४६॥
शृणु प्रहर्षजननीं कथामाश्चर्यशालिनीम् ।
इत्युक्त्वैवाभवत्क्षीबो भेजे निद्रां समाकुलः ।। १४७ ॥
धाव्यामपि प्रसुप्तायामेक एव वणिक्सुतः ।
विनिद्रो निशि शुश्राव वाणीमाकाशयोषिताम् ॥ १४८ ॥
अहो नु राजपुत्रेण कथिता नैव सा कथा ।
कौतुकाद्वयमायाताः सुप्तश्चैष सदाकुलः ॥ १४९ ॥
आभाष्य कथयामीति मूर्खो यो याति मूकताम् ।
कौतुकाच्छ्रोतुमायातास्तं शपन्त्यनु देवताः ।। १५० ॥
हार वर्त्मनि संप्राप्य यदा कण्ठे करिष्यति ।
तदा तेनैव पाशेन कृतान्तमयमेष्यति ॥ १५१ ॥
भक्षयित्वाम्रवृक्षस्य फलान्येष विनङ्क्ष्यति ।
अथ वास्योपरिगृहं क्षिप्रमेव पतिष्यति ।। १५२ ॥
क्षुतशब्दशते नास्य जीवशब्दशतं न चेत् ।
कञ्चिद्दास्यति तेनैव प्रयास्यत्येष पञ्चताम् ॥ १५३ ।।
अस्य शापप्रतीकारं यः कुर्यात्पशुचेतसः
सोऽपि व्यसनमासाद्य संशये निपतिष्यति ॥ १५४ ॥
श्रुत्वेति शापान्देवीभिर्वितीर्णान्सुहृदो मिथः ।
तत्प्रतीवातसंनद्धः स बभूव वणिक्सुतः ।। १५५ ।।
प्रभाते कृतयात्रोऽथ राजपुत्रः सहानुगः


सततं तप्रिय ख. 'भाषि ख. ३. स्वच्छ ख,

घातं ख.