पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-राजपुत्राख्यायिका ।]
१६९
बृहत्कथामञ्जरी ।

श्रुत्वेति वचनं राज्ञो बभाष मुनिपुत्रकः ।
अहं खतपसोऽशेन सशरीरस्य ते दिवि ।
रम्भाससागमं कर्ता देहि राजन्सुलोचनाम् ॥ १३३ ।।
पुरा प्रमद्वरां जायां भृगुवंशभवो गुरुः ।
आयुषोऽर्धेन दुष्टाहिदष्टामेवमजीवयत् ॥ १३४ ॥
इत्युक्त्वा संगमं राज्ञो विदधे रम्भया दिवि ।
सुलोचनां मुनिः प्राप स्मरामृततरङ्गिणीम् ॥ १३५ ॥
इति कन्याप्रभावेण प्राप्नुवन्तीप्सितं नराः ।
शापादिकारणाद्देव्यो मर्येष्ववतरन्ति च ॥ १३६ ॥
इति सुलोचनाख्यायिका ॥ ७ ॥
इति विप्रगिरा राजा चिन्तां तत्याज निर्वृतः ।
कलिङ्गसेनां तनयां पश्यन्नयनचन्द्रिकाम् ॥ १३७ ॥
सा पितुर्मन्दिरे बाला केलिलीलाविलासिनी।
दृष्टा सौधस्थिता व्योम्ना कदाचिद्दैत्यकन्यका(या) ॥ १३८ ।
मयस्य तनया तन्वी साथ सोमप्रभाभिधा ।
कृत्वा मयोर्चितं चेष सख्यं चक्रे तया सह ।। १३९॥
तयोविश्वस्तसद्भावप्रेमप्रणयपल्लवा ।
संसिक्ता स्नेहपीयूषैर्ववृधे प्रेमवल्लरी ॥ १४ ॥
ततो मयसुता प्राह तां विश्वासकथान्तरे ।
राजपुत्रि सुगुप्तोऽयं संगमो मे प्रियस्त्वया ॥ १४ ॥
नामिन्राजगृहे स्थातुं शक्ता प्रकटिता त्वया ।
आशीविषगुहाघोरं राजगेहं सुदुःसहम् ॥ १४२ ॥
नगर्यो पुष्करावत्यां गूढसेनो नृपात्मजः ।
मित्रं वणिक्सुतं चक्रे प्रणयेनार्थितं पुरा ॥ १४३ ॥
संगतो राजपुत्रेण स्नेहसंमानकारिणा ।


१. 'सोऽर्धेन' ख. २. 'विधाय सुरयोषिता' ख. ३. विधम्म ख.४, प्रीति'

६.'यहा ख. .